बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 367, कुल 760 में से
संदर्भ में पढ़ेंशय्यालक्षणाध्यायः ३३९
अन्यदप्याह—
कण्टकिनो ये च स्युर्महानदीसङ्गमोद्भवा ये च।
सुरभवनजाश्च न शुभा ये चापरयाम्यदिक्पतिताः ॥४॥
काँटे वाले, महानदी या देवालय में उत्पन्न तथा पश्चिम या दक्षिण दिशा में गिरे हुये
सभी वृक्ष शय्या और आसन के लिये अशुभ होते हैं॥४॥
कण्टकिन इति। ये च कण्टकिनः सकण्टकाः स्युर्भवेयुः। ये च महानदीसङ्गमो-
द्भवाः, महानद्यः प्रधानसरितः, सङ्गमः संयोगो यत्र तत्र येषामुद्भव उत्पत्तिः। तथा ये च
सुरभवनजाता देववेश्मनि जाताः, ते सर्व एव वृक्षा न शुभाः। ये चाऽपरस्यां पश्चिमायां
दक्षिणस्यां दिशि पतितास्तेऽपि न शुभाः ॥४॥
अथाप्रशस्तवृक्षरचितस्य शयनासनस्य फलमनिष्टमाह—
प्रतिषिद्धवृक्षनिर्मितशयनासनसेवनात् कुलविनाशः ।
व्याधिभयव्ययकलहा भवन्त्यनर्था अनेकविधाः ॥५॥
अशुभ वृक्ष की लकड़ी से बनी हुयी शय्या और आसन का सेवन करने से कुल
का नाश, रोग, भय, धन की हानि, कलह और अनेक प्रकार के अनर्थ होते हैं॥५॥
प्रतिषिद्धेनाप्रशस्तेन वृक्षेण तरुणा यन्निर्मितं कृतं शयनमासनं वा तस्य सेवनात्
कुलविनाशो वंशक्षयो भवति, तथा व्याधिः पीडा, भयं भीतिः, व्ययमर्थहानिः, कलहोऽप्रीतिः—
एते भवन्ति। अनेकविधा अनेकप्रकाराश्चानर्था अनर्थकृतयो भवन्ति सन्ति॥५॥
अथ प्राक्छिन्नस्य दारुणः परीक्षणवशेन फलमाह—
पूर्वच्छिन्नं यदि वा दारु भवेत्तत्परीक्ष्यमारम्भे ।
यद्यारोहेत्तस्मिन् कुमारकः पुत्रपशुदं तत् ॥६॥
शय्या या आसन के निर्माण से पहले पूर्व में काटे गये वृक्ष के शुभाशुभ फल का
परीक्षण कर लेना चाहिये। यदि उस कटे हुये वृक्ष पर अकस्मात् कोई बालक चढ़ जाय
तो वह वृक्ष पुत्र और पशु को देने वाला होता है॥६॥
यदि वा कदाचिद्दारु काष्ठं पूर्वच्छिन्नं प्राक्कल्पितं भवेत् स्यात् तदा तद्दार्वारम्भे
प्रारम्भकाले परीक्ष्य विचार्यम्। ‘अशनिजल’ इत्यादिनाक्तलक्षणेन तस्मिन् पूर्वच्छिन्ने दारुणि
यदि कश्चित् कुमारको बालक आगत्याऽऽरोहेदुपर्युपविशति, तदा तत्कृतं शयनासनं
पुत्रपशुदं भवति। पुत्रान् सुतान् पशूंश्चतुष्पदान् ददाति॥६॥
अथारम्भकाले शुभचिह्नान्याह—
सितकुसुममत्तवारणदध्यक्षतपूर्णकुम्भरत्नानि ।
मङ्गल्यान्यन्यानि च दृष्ट्वारम्भे शुभं ज्ञेयम् ॥७॥
शय्या या आसन के निर्माणकाल में सफेद फूल, मतवाला हाथी, दही, अक्षत,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA