सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 366, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 366

अथ शय्यालक्षणाध्यायः
अथ शय्यासनलक्षणं व्याख्यायते। तत्रादावेव तदारम्भप्रदर्शनार्थमाह—
सर्वस्य सर्वकालं यस्मादुपयोगमेति शास्त्रमिदम्।
राज्ञां विशेषतोऽतः शयनासनलक्षणं वक्ष्ये ॥१॥
सभी मनुष्यों के लिये सभी कालों में यह शास्त्र उपयोग में आता है; किन्तु राजाओं
को विशेष रूप से; इसलिये अब यहाँ शय्या तथा आसन का लक्षण कहता हूँ॥१॥
यस्माद्यत इदं शास्त्रं शयनासनलक्षणाख्यं सर्वजनस्य सर्वकालमुपयोगमेति गच्छति,
विशेषतो नृपाणामुपयोगमेति। अतोऽस्माच्छयनासनलक्षणं वक्ष्ये कथयिष्ये॥१॥
तत्रादौ नृपाणामासनलक्षणमाह—
असनस्पन्दनचन्दनहरिद्रसुरदारुतिन्दु कीशालाः ।
काश्मर्यञ्जनपद्मकशाका वा शिंशपा च शुभाः ॥२॥
विजयसार, स्पन्दन, हरिद्रा, देवदारु, तिन्दुकि, शाल, काश्मरी, अञ्जन, पद्मक, शाक,
शिंशपा—ये सभी वृक्ष शय्या और आसन के लिये शुभदायी होते हैं॥२॥
असनम्। स्पन्दनम्। चन्दनं मलयजम्। हरिद्रः। सुरदारुर्देवदारुः। तिन्दुकिः। शालः।
एते सर्व एव वृक्षविशेषाः। काश्मरी। अञ्जनं शोभाञ्जनम्। पद्मकः। शाकः। शिंशपा
च—एते वृक्षाः। सर्व एव शयने शय्यायामासने च शुभाः शुभदाः॥२॥
अथाशुभवृक्षानाह—
अशनिजलानिलहस्तिप्रपातिता मधुविहङ्गकृतनिलयाः ।
चैत्यश्मशानपथिजाेर्ध्वशुष्कवल्लीनिबद्धाश्च ॥३॥
बिजली, जल, वायु या हाथी द्वारा गिराये हुये, मधुमक्खियों के छत्ते या पक्षियों के
घोसलों वाले, चैत्य ( प्रधान वृक्ष ), श्मशान या मार्ग में स्थित तथा सूखी हुई लताओं
से व्याप्त—ये सभी वृक्ष शय्या और आसन के लिये अशुभ होते हैं॥३॥
अशनिर्विद्युत्। जलं पानीयम्। अनिलो वायुः। हस्ती करी—एभिर्ये वृक्षाः प्रपातिताः
प्रपीडिताः। वा मधुविहङ्गैःकृतनिलयाः, मधुभिर्मक्षिकाभिः, विहङ्गैश्च पक्षिभिः कृता निलया
निवासस्थानानि येषाम्। चैत्यः प्रधानवृक्षः। श्मशानजः पितृवनजातः। पथिज्ञः। मार्गजातः।
ऊर्ध्वशुष्कः स्थानस्थ एवोपरि भागे शुष्को नीरसो जातः। वल्लीभिर्निबद्धः। एते सर्व
एवाशुभाः॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA