बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 230, कुल 760 में से
संदर्भ में पढ़ें२०२ बृहत्संहिता
प्रकृतिः—
भूजलशिख्यनिलाम्बरसुरनररक्षःपिशाचकतितरश्चाम्।
सत्त्वेन भवति पुरुषो लक्षणमेतद्भवत्येषाम्।।
‘महीस्वभावः शुभपुष्पगन्धः’ इत्यादि, ‘एवं नराणां प्रकृतिः प्रदिष्टा यल्लक्षणज्ञाः
प्रवदन्ति सत्त्वम्’ इति। सत्त्वं पञ्चपुरुषलक्षणोक्तं प्राक् प्रतिपादितमेव। अनूकमित्येत-
ज्जन्मान्तरादागतिरनूकाख्या।
साध्यमनूकं वक्त्राद् गोवृषशार्दूलसिंहगरुडमुखाः।
अप्रतिहतप्रतापा जितरिपवो मानवेन्द्राश्च।।
अनूकं प्रकृतितो विशेषेणैव गम्यते, प्रकृतिश्चानन्तरं प्रदर्शिता। क्षेत्रमिति।
पादौ सगुल्फौ प्रथमं प्रदिष्टौ जङ्घे द्वितीयं च सजानुचक्रे।
मेढ्रोरुमुष्कं च ततस्तृतीयं नाभिः कटिश्चेति चतुर्थमाहुः।।
उदरं कथयन्ति पञ्चमं हृदयं षष्ठमतः स्तनान्वितम्।
अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धरे।।
नवमं नयने च सभ्रूणी सललाटं दशमं शिरस्तथा।
इति दश क्षेत्राणि। मृजाञ्चेति। मृजा पञ्चमहाभूतमयी।
छाया शुभाशुभफलानि निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः।
तेजोगुणान् बहिरपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघटस्थितेव।।
तथा ऋषिपुत्रेण ग्रहाणां षड्विधा छाया प्रोक्ता—
या च च्छाया प्रभा सैव षड्विधा सा प्रकीर्तिता।
स्वच्छा स्निग्धा प्रसन्ना च कान्ता दीप्ता विदीपिनी।। इति।।१।।
अत्राचार्याः पादात् प्रभृति केशान्तं यावल्लक्षणानि वक्ष्यन्ति। तत्रादावेव पादयो-
र्लक्षणमाह—
अस्वेदनौ मृदुतलौ कमलोदराभौ
श्लिष्टाङ्गुली रुचिरताम्रनखौ सुपाष्णौ ।
उष्णौ शिराविरहितौ सुनिगूढगुल्फौ
कूर्मोन्नतौ च चरणौ मनुजेश्वरस्य ॥२॥
स्वेदरहित, कोमल तल वाले, कमलोदर के समान, सम्मिलित अंगुलियों से युत,
ताम्र वर्ण के सुन्दर नख वाले, सुन्दर एड़ियों से युत, गरम, शिराओं से रहित, छिपी हुई
पाँव की गाँठी वाले और कछुये के पृष्ठ के समान पाँव राजा के होते हैं॥२॥
एवंविधौ चरणौ पादौ मनुजेश्वरस्य राज्ञः। कीदृशौ? अस्वेदनौ स्वेदवर्जितौ। मृदुतलौ
मृदुनी मार्दवयुक्ते तले ययोः। कमलोदराभौ कमलं पद्मं तस्योदरं तत्सदृशी आभा कान्तिर्ययोः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA