बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 229, कुल 760 में से
संदर्भ में पढ़ेंपुरुषलक्षणाध्यायः २०१
उन्मानमिति—
अष्टशतं षण्णवतिः परिमाणं चतुरशीतिरिति पुंसाम्।
उत्तमसमहीनानामङ्गुलसङ्ख्या स्वमानेन।। इति।
मानं तुलामानम्—
भारादर्द्धतनुः सुखभाक् तुलितोऽतो दुःखभाग् भवत्यूनः।
भारोऽतीवाढ्यानामध्यर्द्धः सर्वधरणीशः।। इति।
गतिर्गमनम्—
शार्दूलहंससमदद्विपगोपतीनां तुल्या भवन्ति गतिभिः शिखिनाञ्च भूपाः।
येषाञ्च शब्दरहितं स्तिमितं प्रयातं तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः।। इति।
संहतिरिति। संहतिर्घनता। तथा च—
सूक्ष्माणि पञ्च दशनाङ्गुलिपर्वकेशाः।
साकं त्वचा कररुहाश्च न दुःखितानाम्।।
तथा—
सङ्घात इति च सुश्लिष्टसन्धिता सुखभुजो ज्ञेया। इति।
सार इति—
सप्त भवन्ति च सारा मेदोमज्जात्वगस्थिशुक्राणि।
रुधिरं मांसं चेति प्राणभृतां तत्समानफलम्।। इति।
वर्ण इति—
नेत्रान्तपादकरतालवधरोष्ठजिह्वा रक्ता नखाश्च खलु सप्त सुखावहानि।
तथा—
द्युतिमान् वर्णः स्निग्धः क्षितिपानां मध्यमः सुतार्थवताम्।
रूक्षो धनहीनानां शुद्धः शुभदो न सङ्कीर्णः।।
स्नेहः स्निग्धता—
स्नेहः पञ्चसु लक्ष्यो वाग्जिह्वादन्तनेत्रनखसंस्थः।
सुतधनसौभाग्ययुताः स्निग्धैस्तैर्निर्धना रूक्षैः।। इति।
स्वरः शब्दः—
करिवृषरथौघभेरीमृदङ्गसिंहाब्धिनिःस्वना भूपाः।
गर्दभजर्जररूक्षस्वराश्च धनसौख्यसन्त्यक्ताः।। इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA