बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 114, कुल 760 में से
संदर्भ में पढ़ें८६ बृहत्संहिता
वीरणस्तृणविशेषः, दूर्वा शाद्वलम्, एते यत्र मृदवोऽतिकोमखास्तत्राद्यपुरुषे जलं भवति।
भार्ङ्गी प्रसिद्धा, त्रिवृता त्रिवृत्, दन्ती, सूकरपादी, लक्ष्मणा, नवमालिका, एताः सर्वा
एव स्वनामभिः सुप्रसिद्धाः। एता ओषधयो यत्र सन्ति तत्र याम्ये दक्षिणे हस्तद्वये त्यक्ते
अधस्त्रिभिः पुरुषैरम्बु भवति।।४७-४८।।
अन्यदप्याह—
स्निग्धाः प्रलम्बशाखा वामनविकटद्रुमाः समीपजलाः ।
सुषिरा जर्जरपत्रा रूक्षाश्च जलेन सन्त्यक्ताः ।।४९।।
जहाँ निर्मल लम्बी डालियों से युत छोटे-छोटे विस्तृत वृक्ष हों, वहाँ जल निकट में
होता है और जहाँ अन्तःसार वाले, विवर्ण पत्ते वाले, रूखे वृक्ष हों, वहाँ जलाभाव
होता है।।४९।।
स्निग्धाः प्रलम्बशाखा वामनविकटद्रुमाः समीपजलाः। ये द्रुमा वृक्षाः स्निग्धाः सस्नेहाः,
प्रलम्बशाखा दीर्घलताः, वामना अतिह्रस्वाः, विकटा विस्तीर्णाः—एते सर्व एव समीप-
जलाः सन्निकृष्टोदकाः। तथा ये द्रुमाः सुषिरा अन्तरसाराः, जर्जरपत्रा विवर्णपत्राः, ये च
रूक्षा निःस्नेहास्ते सर्वे जलेन उदकेन सन्त्यक्ता वर्जिताः। तत्र जलं न भवतीत्यर्थः ।।४९।।
अन्यदप्याह—
तिलकाम्रातकवरुणकभल्लातकबिल्वतिन्दुकाङ्कोलाः ।
पिण्डारशिरीषाञ्जनपरूषका वञ्जुलोऽतिबला ।।५०।।
एते यदि सुस्निग्धा वल्मीकैः परिवृतास्ततस्तोयम् ।
हस्तैस्त्रिभिरुत्तरतश्चतुर्भिरर्धेन च नरेण ।।५१।।
जहाँ पर निर्मल वल्मीक से युत तिलक, आम्रातक ( अम्बाड़ा ), वरुणक ( बरण ),
भिलावा, बेल, तेन्दु ( तेन्दुआ ), अङ्कोल, पिण्डार, शिरीष, अञ्जन, परूषक ( फालसा ),
अशोक, अतिबला—ये वृक्ष हों, वहाँ इन वृक्षों से तीन हाथ आगे उत्तर दिशा में साढ़े
चार पुरुष नीचे जल होता है।।५०-५१।।
तिलकेति। तिलको वृक्षविशेषः, आम्रातकः, वरुणकः, भल्लातकः, विल्वः, तिन्दुकः,
अङ्कोलः, पिण्डारः, शिरीषः, अञ्जनम्, परूषकः, वञ्जुलः, अतिबला—एते सर्व एव
वृक्षविशेषाः केचिद्विटपप्रायाः, यदि च सुस्निग्धैर्वल्मीकैः परिवृता भवन्ति, तदा तेषामेव
तिलकादीनामुत्तरस्यां दिशि त्रिभिर्हस्तैः परतोऽधश्चतुर्भिर्नरैरर्धेन च नरेण सार्धैश्चतुर्भिः पुरुषै-
स्तोयं जलं भवति।।५०-५१।।
अन्यदप्याह—
अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र ।
तस्मिन् शिरा प्रदिष्टा वक्तव्यं वा धनं चास्मिन् ।।५२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA