बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 111, कुल 760 में से
संदर्भ में पढ़ें८३
दकार्गलाध्यायः
प्रथममादावेकस्मिन् पुरुषे खाते अहिराजः सर्पराड् दृश्यते। ततो धूम्रा रक्तश्यामा
धात्री भूः। ततः कुलुत्थवर्णोऽश्मा पाषाणः। तत्र च माहेन्द्री पूर्वा शिरा भवति। सा च
सदा सर्वकालं सफेनं फेनसंयुक्तं तोयं जलं वहति।।३५-३६।।
अन्यदप्याह—
वल्मीकः स्निग्धो दक्षिणेन तिलकस्य सकुशलूर्वश्चेत् ।
पुरुषैः पञ्चभिरम्भो दिशि वारुण्यां शिरा पूर्वा ।।३७।।
तिलक ( तालमखाना ) के वृक्ष से दक्षिण कुशा और दूब से युक्त स्निग्ध वल्मीक
हो तो उस वृक्ष से पाँच हाथ पश्चिम में पाँच पुरुष नीचे जल और पूर्ववाहिनी शिरा होती
है।।३७।।
तिलकवृक्षस्य दक्षिणे वल्मीकः स्निग्धः सकुशलूर्वः कुशौर्दभैर्दूर्वाभिः शाद्वलैश्च युक्तो
यदि भवति, तदा तिलकवृक्षस्य वारुण्यां पश्चिमायां दिशि पञ्चभिर्हस्तैः परतोऽधः पञ्चभिः
[L12