सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 81, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 81

सांवत्सरसूत्राध्यायः ४१
इष्टग्रहकक्ष्यायोजनानां चन्द्रकक्ष्यायोजनैर्भागमपहृत्यावाप्तं लिप्तास्तस्यैव ग्रहस्य चान्द्रयो
भवन्ति। कक्ष्यामहत्त्वविवक्षया सौरादीनामित्युक्तम्। सौरादीनां मध्यमग्रहाणां चान्द्र्यः कला
भवन्ति। तत्र कर्मणो लाघवार्थं सर्वग्रहाणां भाज्यभाजकराशी चन्द्रकक्ष्यायोजनैर-पवर्त्तनीयौ
तत्र सर्वग्रहस्य भाज्यो राशिश्चन्द्रभगणा भवन्ति। भाजकराशिः स्वभगणा इति। तत्रैतत्कर्म
जातम्। चन्द्रभगणानां यस्यैव ग्रहस्य सम्बन्धिविभिर्भगणैर्भागो हियते तस्यैव कलाश्चान्द्रयो
भवन्ति। एवं दर्शितविधिना सर्वग्रहाणामागताश्चान्द्र्यः कला लिख्यन्ते।
रखेः १३/१५९३३३६/४३२००००।
चन्द्रस्य १।
भौमस्य २५/३३२७३६/२२९६८२४।
बुधस्य ३/३९४२३३६/१७९३७०००।
जीवस्य १५८/२०६५७६/३६४२२०।
शुक्रस्य ८/१५७४२३२/७०२२३८८।
शनेः ३९४/७१२०/१४६५६४।
( खकक्षायाः ५८२१५३६२६८८ )।
अथ चान्द्रीभिः कलाभिर्ग्रहकक्ष्याकर्णानयनमाह—
पञ्चदशहता योजनसङ्ख्या तत्सङ्गुणोऽर्द्धविष्कम्भः।
योजनकर्णोऽधः स्याद्भूयोजनकर्णविधिना वा॥
एताश्चान्द्र्यः कलाः पञ्चदशगुणिता योजनत्वं गच्छन्ति योजनभूताश्च क्रमेण लिख्यन्ते।
रखेः २००/२३०००४०/४३२००००।
चन्द्रस्य १५।
भौमस्य ३३७/३९७३६२/२२९६८२४।
बुधस्य ४८/५३२४०४०/१७९३७०००।
गुरोः २३७८/१८४८८०/३६४२२०।
शुक्रस्य १२३/२५४६३१६/७०२२३८८।
शनेः ५९१०/१०६८००/१४६५६४।
नक्षत्राणाम् १२०३१/२०४१२/२१६००।
( खकक्षायाः ८७३२३०४४०३२० )।
एतानि प्रतिकक्ष्यं ग्रहाणां लिप्तायोजनानि। तत्सङ्गुणोऽर्द्धविष्कम्भ इति। एतैः
सर्वकक्ष्यायोजनैरर्द्धविष्कम्भो व्यासार्द्धं ३४३७/९६७/१३०९ गुणितः प्रतिकक्ष्यं कर्णार्द्ध-
योजनानि भवन्ति। तत्र व्यासार्द्धं ३४३७/९६७/१३०९ पूर्वनीतैराकाशकक्ष्यालिप्तायो-
जनैरेतैः ८७३२३०४४०३२० गुणितं जाताः ३००१९३८१०६५२४०६४। एतदा-
काशकक्ष्याकर्णार्द्धम्। भूवृत्तयोजनाष्टशतीं खनित्वा यः प्रदेशो भवति तस्मात्प्रदेशादेतावत्सु
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA