बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 79, कुल 728 में से
संदर्भ में पढ़ेंसांवत्सरसूत्राध्यायः ३९
यावन्तश्चतुर्युगेणार्कभगणास्तावन्ति सावनमानेन चतुर्युगवर्षाणि भवन्ति। तानि च—
परिवर्तैरयुतगुणैर्द्वित्रिकृतैर्भास्करो युगं भुङ्क्ते ४३२००००।
एतानि चतुर्युगवर्षाणि द्वादशगुणानि ५१८४००००। एते सावनेन चतुर्युगमासाः। एत
एव साधिमासकाः कर्तव्याः।
अधिमासकाः षडग्नित्रिकदहनच्छिद्रशररूपाः १५९३३३६।
एतैर्युक्ता जाताः ५३४३३३३६। एते चतुर्युगेण चान्द्रेण मानेन मासा भवन्ति। एते
भमाससहिताः कर्तव्याः। भमासाश्चात्राधिका ग्रहीतव्याः। चतुर्युगेण चान्द्रमासेभ्यो यावन्तोऽ-
तिरिच्यन्त इति। तत्र चतुर्युगेण नाक्षत्रमानदिनानि।
आर्क्षेण खाष्टखत्रयरसयुग्मगुणानिलशशाङ्काः १७३२६०००८०।
एतेषां त्रिंशता भागमपहृत्यावाप्तम् ५७७५३३३६। एतावन्तश्चतुर्युगेण नाक्षत्रमानमासा
भवन्ति। एत एव चन्द्रभगणाः। चन्द्रभगणेनैकेन नाक्षत्रमानमासो भवति। तस्मान्नाक्षत्रमान-
मासानां चन्द्रमासाः संशोध्याः। संशोध्य जाताः ४३२००००। एतावन्तश्चतुर्युगेण चन्द्रमा-
सेभ्यो नक्षत्रमासा अतिरिच्यन्त इति। तस्मादेतान् भमासान् सूर्यमासाधिमाससंयोगेऽस्मिन्
५३४३३३३६ संयोज्य जाताः ५७७५३३३६। एवं युगमासाधिकमासभमासयोगतश्चन्द्र-
भगणा उत्पन्नाः। तस्माद्वक्ष्यति—
रसदहनहुतवहानलशरमुनिपवनेन्द्रियै५७७५३३३६श्चन्द्रः।
अथैते चन्द्रभगणा योजनीकार्याः। कथमित्यत्रोच्यते—चन्द्रकक्ष्यायां पञ्चदशभिर्यो-
जनैरेकैका लिप्ता भवत्यतश्चन्द्रभगणानां लिप्ताः कृत्वा पञ्चदशभिर्गुणयित्वा योजनसंख्या-
त्वामाप्नुवन्ति। वक्ष्यति च—'पञ्चदशहता योजनसंख्ये'ति।
तत्र युगमासाधिकमासभमासयोगोऽयं ५७७५३३३६ द्वादशहतो जातः ६९३०४
००३२। एते चतुर्युगेण चन्द्रराशयः। एते त्रिंशद्गुणाः २०७९१२००९६०। एते चतुर्युगेण
चन्द्रभागाः षष्ट्या गुणिताः १२४७४७२०५७६००। एताश्चतुर्युगेण चन्द्रलिप्ताः। एताः
पञ्चदशहता जाताः १८७१२०८०८६४०००। एतावन्ति योजनानि प्रत्येकस्य ग्रहस्य
चतुर्युगाध्वा। आचार्यः पठिष्यति च—
वेदरसाष्टवियद्वसुखरविनगाष्टेन्दवः सहस्रघ्नाः १८७१२०८०८६४०००।
एतावन्ति योजनान्येकेन ग्रहेण स्वकक्ष्यास्थेन पूर्वा दिशमाक्रमता चतुर्युगेण गन्त-
व्यानीति। तद्युक्तम्—'प्राग्गायिनां ग्रहाणामि'ति।
तस्मात् कक्ष्या भगणभक्ताः। अत्र तावदाकाशकक्ष्याप्रमाणं क्रियते। तत्र चतुर्युगाध्व-
योजनानीमानि १८७१२०८०८६४०००। एतान्यष्टाधिकेन चतुर्युगसहस्रेण कल्प
इत्यष्टाधिकेन सहस्रेण गुणितानि जातानि १८८६१७७७५१०९१२०००। इयमाका-
शकक्ष्या। अस्या अभ्यन्तरं सविता वितमस्कं करोति। एषा च पठ्यते—
CC-0. JK Sanskrit Academy, Jammmau. Digitized by S3 Foundation USA