बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 78, कुल 728 में से
संदर्भ में पढ़ें३८ बृहत्संहिता
आद्यन्तयोः स धूम्रः कृष्णः खण्डग्रहेऽर्धतोऽभ्यधिके।
ग्रासे स कृष्णताम्रः सर्वग्रहणे कपिलवर्णः।। इति।
एवमादिकानामादेशानामनागतानामेष्याणामादेष्टा कथयिता। तथा अनागतानां ग्रहस-
मागमानां ग्रहयुद्धानां चादेष्टा। समागमस्ताराग्रहाणां चन्द्रमसा सहैकराशिगतानां भवति।
भौमादीनामेकराशिगतानां दक्षिणोत्तरसंस्थानवशेन युद्धं भवति।
तत्र समागमे युद्धे चैतत्परिज्ञानम्। यथा—अमुको ग्रह उत्तरे। अमुको दक्षिणे
भविष्यति। तयोश्चान्तरमेतावन्तो हस्ता एवमेतावन्त्यङ्गुलानि वा भेदः समागमो वा
भविष्यतीति। एतदपि गणितसिद्धम्। ग्रहयोर्विक्षेपौ कृत्वा ततस्तयोर्विक्षेपयोरेकदिक्कयो-
रन्तरं कार्यं भिन्नदिक्कयोर्योगः। ततस्तस्मादन्तराद्योगाद्वा ग्रहमानैक्यार्धं विशोधयेत्। यदि
न शुद्ध्यति तदा भेदसमागमः। अधःस्थेन ऊर्ध्वस्थो ग्रहश्छाद्यते। अथ शुद्ध्यति तदा
संशोध्य यदवशिष्यते तद्ग्रहान्तरं स्फुटं भवति। तच्च लिप्तारूपं तस्य षष्ट्या भागमप-
हृत्यावाप्तं भागास्त एव हस्ताः शेषं चतुर्विंशत्यां सङ्गुण्य प्राग्वद्विभज्यावाप्तान्यङ्गुलानि।
तत्र यस्य दक्षिणे विक्षेपः स दक्षिणभागस्थो यस्योत्तरः स उत्तरविभागस्थः। द्वयोरेकदिक्क-
योर्यस्याधिकः स तत्रस्थः। इतरोऽन्यत्र स्थितः। तत्र फलानि वक्ष्यत्याचार्यः। तथा चोक्तम्—
भागैः कराः परस्परमेषां युद्धं समागमः शशिना।
रविणास्तमय उदक्स्थो ग्रहो जयी दक्षिणे शुक्रः।। इति।
एतेषामप्यनागतानामादेष्टा।।१०।।
अन्यदप्याह—
प्रत्येकग्रहभ्रमणयोजनकक्ष्याप्रमाणप्रतिविषययोजनपरिच्छेदकुशलः ॥१९॥
प्रत्येक ग्रहों के योजनात्मक कक्षाप्रमाण और प्रत्येक देशों का योजनात्मक देशान्तर
जानने में दैवज्ञ को कुशल होना चाहिये॥११॥
एकमेकं प्रत्येकं प्रत्येकस्य ग्रहस्य भ्रमणयोजनानि प्रत्येकग्रहभ्रमणयोजनानि तेषां
परिच्छेदे परिच्छित्तौ विज्ञाने कुशलः शक्तः। यथा—अमुको ग्रह एतावद्भियोंजनैर्भूगोलादु-
परि भ्रमति। ग्रहयोजनकर्णं जानातीत्यर्थः। तथा कक्ष्याप्रमाणपरिच्छेदकुशलः। अमुकस्य
ग्रहस्यैतावन्ति कक्ष्यायोजनानि। मध्यमो ग्रहो यत्र भ्रमति तद्वृत्तपरिज्ञानमित्यर्थः।
तच्च कक्ष्याकर्णपरिज्ञानं पुलिशादिषु पठ्यते। तत आनीयास्माभिरिह प्रदर्श्यते। तत्र
तावद्योजनप्रमाणज्ञानम्—
योजनमष्टौ क्रोशाः क्रोशश्चत्वारि करसहस्राणि।
हस्तः शङ्कुद्वितयं द्वादशभिः सोऽङ्गुलैः शङ्कुः।।
अथ ग्रहाणां चतुर्युगाध्वयोजनप्रमाणम्—
युगमासाधिकमासाः सभमासा योजनीकृताः सोऽध्वा।
प्राग्गायिनां ग्रहाणां तस्मात् कक्ष्या भगणभक्ताः।।
CC-0. JK Sanskrit Academy, Jammmụ. Digitized by S3 Foundation USA