सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 77, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 77

सांवत्सरसूत्राध्यायः ३७
स्वल्पबिम्बो दृश्यते स चोच्चां गतिमाश्रितो भवति। यदा कक्ष्यामण्डलादधःस्थितो भवति तदा
भूमेरासन्नत्वान्महान् प्रमाणो दृश्यते स नीचां गतिमाश्रितो भवति। तत्र च ग्रहे स्फुटीक्रिय-
माणेऽन्त्यकर्णः प्रथमे केन्द्रपदे भवति चतुर्थे वा तदा ग्रह उच्चां गतिमाश्रितो भवति।
अथ यदा द्वितीयतृतीयपदस्थो भवति तदा नीचां गतिमाश्रितोऽत एव त्रिज्यायां कोटिफलं
धनमृणं वा क्रियते येन प्रतिमण्डलप्रापी स्फुटकर्णो भवति। तथा चाऽऽचार्यः—
शीघ्रान्मध्यविहीनाद्राशित्रितये गतैष्यदंशज्या।
भुजकोटी तत्परतः षड्भ्यः पतिते स एव विधिः।।
स्वपरिधिगुणिते भाज्ये खर्तुगुणैस्ते विपरिणते तच्च।
कोटिफलं व्यासार्धे मृगकर्क्यादौ चयापचयः।।
तद्भुजकृतियोगपदैरिति। तथा च ब्रह्मसिद्धान्ते—
तद्गुणिते ज्ये भांशैर्हृते फले कोटिफलयुता त्रिज्या।
आद्यन्तयोर्विहीना पदयोर्द्वितीयतयोः कोटिः।।
तद्भुजफलकृतियोगान्मूलं कर्णं ................................ इति।।
एवमादिषु कारणज्ञाने अभिज्ञः। अभि मुख्येन जानातीत्यभिज्ञः।।९।।
अन्यदप्याह—
सूर्यचन्द्रमसोश्च ग्रहणे ग्रहणादिमोक्षकालदिक्प्रमाणस्थितिविमर्दवर्णा-
देशानामनागतग्रहसमागमयुद्धानामादेष्टा ॥१०॥
सूर्य-चन्द्र के ग्रहण में स्पर्श, मोक्ष, इनके दिग्ज्ञान, स्थिति, विभेद, वर्ण, देश, भावी
ग्रहसमागम और ग्रहयुद्धों को बताने वाला दैवज्ञ को होना चाहिये।।१०।।
सूर्यचन्द्रमसोरर्कशशिनोर्ग्रहणे उपरागे ग्रहणादि ग्रहणप्रारम्भं जानाति। एतावति स्वदि-
नगते काले ग्राह्यग्राहकबिम्बसम्पर्कः। तथा मोक्षकालं जानाति। एतावति गते काले मोक्षः।
ग्राह्यमण्डलं सकलं ग्राहकस्त्यजति। तथा कालं जानाति। प्रग्रहणमोक्षयोरन्तर एतावान्
कालः। तथा दिक्। अमुकस्यां दिशि प्रग्रहणममुकस्यां निमीलनममुकस्यां मध्यग्रहण-
ममुकस्यामुन्मीलनममुकस्यां मोक्ष इति। प्रमाणं यथा—खण्डग्रहण एतावद्विम्बं छिन्नं
भवति। मध्यग्रहणकालिके तिथ्यन्ते स्फुटप्रग्रहणस्थित्यर्थं विशोध्य ग्रहणादिर्भवति, तत्रैव
.मौक्षकालिकं स्फुटस्थित्यर्द्धं संयोज्य मोक्षकालो भवति। स्थित्यर्द्धद्वयस्य योगः स्थितिकालः।
विमर्दो निमीलनोन्मीलनयोर्मध्यकालः। तावन्तं कालं ग्राह्यबिम्बं सकलं ग्राहकः सञ्छाद्य
तिष्ठति स विमर्दकालः। तथा वर्णो ग्रहणे ग्राहकगृहीतस्य बिम्बस्य। स धूम्रकृष्णताम्रकपिल
इति। एतत्सर्वं गणितस्कन्धनिर्दिष्टम्। वलनविक्षेपवशेन परिलेखेन प्रग्रहणादीनां दिग्ज्ञानम्।
मध्यग्रहणपरिलेखाकरणात् प्रमाणज्ञानम्। निमीलिनोन्मीलनविमर्दार्द्धयोर्योगे विमर्दकालः।
वर्णो तथा—