सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 660, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 660

६१८ बृहत्संहिता
धनाप्तिं वित्तागमम्। अङ्गुलिगताः सौभाग्यम्। उदरगताः शुचं शोकम्। नाभौ सुपानान्नं
शोभनमन्नपानम्। तदधो नाभेरधोभागे इहास्मिन् पिटकलक्षणे चौरैस्तस्करैर्धनहृतिं वित्तहरणम्।
बस्तौ धनं धान्यम्। मेढ्रे शिश्ने। युवतिं स्त्रियम्। सुतनयान् शोभनपुत्रान् विदधति। धनं
सौभाग्यं वा गुदवृषणजाताः, गुदजाता अपानस्थानोद्भवा धनं वित्तम्। वृषणजाताः
सौभाग्यमिति। तथा च पराशरः—
'पाणौ धनागमम्। सौभाग्यमङ्गुलिषु। शोकमूदरे। अन्नपानावाप्तिं च नाभौ। चौरैरर्थहरणं
तदधरे। धनधान्यावाप्तिं बस्तौ। सौभाग्यमर्थलाभं च वृषणयोः। पुत्रजन्म स्त्रीलाभं मेहने।
गुदे सौभाग्यम्' इति।।६।।
अन्यदप्याह—
ऊर्वोर्यानाङ्गनालाभं जान्वोः शत्रुजनात् क्षतिम्।
शस्त्रेण जङ्घयोर्गुल्फेऽध्वबन्धक्लेशदायिनः ॥७॥
यदि ऊरु में फुन्सी हो तो वाहन और स्त्री का लाभ, जानु में हो तो शत्रुओं से क्षति,
जांघ में हो तो शस्त्र से विनाश तथा गुल्फ ( टखना = पाँव की गांठी ) में हो तो मार्ग
और बन्धन में कष्ट देती है।।७।।
ऊर्वोर्यानलाभं वाहनाप्तिम्, अङ्गनालाभं स्त्रीप्राप्तिं च ददति। जान्वोः शत्रुजनादरिलोकात्
क्षतिं विनाशम्। जङ्घयोः शस्त्रेण विनाशम्। गुल्फे स्थिता अध्वनि पथि बन्धने च
क्लेशदायिनः कष्टप्रदा भवन्ति। तथा च पराशरः—
'यानाङ्गनालाभमूर्वोः। जान्वोरुपरि रिपुघातम्। शस्त्रेण विनाशम्। जङ्घयोर्गुल्फयोरध्व-
बन्धपरिक्लेशागमः' इति।।७।।
अन्यदप्याह—
स्फिक्पार्ष्णिपादजाता धननाशागम्यगमनमध्वानम्।
बन्धनमङ्गुलिनिचयेऽङ्गुष्ठे च ज्ञातिलोकतः पूजाम् ॥८॥
यदि स्फिक् ( कुल्ला ) में फुन्सी हो तो धननाश, एड़ी में हो तो अगम्य स्थान में
गमन, पाँव में हो तो भ्रमण, अंगुलियों में बन्धन और अंगूठे में हो तो बन्धुओं से पूजा-
सत्कार की प्राप्ति कराती है।।८।।
स्फिक्पार्ष्णिपादजाताः पिटका यथासङ्ख्यं धननाशागम्यगमनमध्वानं कुर्वन्ति। तत्र
स्फिक्पार्ष्णिजाता धननाशागम्यगमनम्। पादजाता अध्वानम्। अङ्गुलिनिचयेऽङ्गुलिसमूहे
बन्धनम्। अङ्गुष्ठे ज्ञातिलोकतो बन्धुजनात् पूजामाप्नोति लभते। तथा च पराशरः—
'स्फिजोर्र्थहरणम्। पाष्ण्योरगम्यगमनम्। पादयोरध्वगमनम्। नियमनमङ्गुल्याम्।
अङ्गुष्ठेन जातिपूजाम्' इति।।८।।
अत्रैव विशेषफलमाह—
उत्पातगण्डपिटका दक्षिणतो वामतस्त्वभीघाताः।
धन्या भवन्ति पुंसां तद्विपरीताश्च नारीणाम् ॥९॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA