बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 570, कुल 728 में से
संदर्भ में पढ़ें५२८ बृहत्संहिता
अतैलता तैलाभावः स्याद् भवेत्। अन्नस्य भोज्यस्य च वैरस्यं विरसत्वं तदा सुमहद्भयं
विन्द्याज्जानीयात्। अतीव भवतीत्यर्थः॥३५॥
अथैषामुत्पातानां शान्तिमाह—
विकृतकुसुमं फलं वा ग्रामादथवा पुराद्बहिः कार्यम्।
सौम्योऽत्र चरुः कार्यों निर्वाप्यो वा पशुः शान्त्यै॥३६॥
सस्ये च दृष्ट्वा विकृतिं प्रदेयं तत्क्षेत्रमेव प्रथमं द्विजेभ्यः।
तस्यैव मध्ये चरुमत्र भौमं कृत्वा न दोषं समुपैति तज्जम्॥३७॥
विकारयुक्त पुष्प और फलों को गाँव से बाहर कर देना चाहिये तथा सोम देव की चरु
बनानी चाहिये और शान्ति के लिये बकरा भी दान करना चाहिये। धान्यों में पूर्वोक्त विकार
देखकर पहले उस क्षेत्र को ही ब्राह्मण के लिए दे देना चाहिये और उसी क्षेत्र के मध्य
में पार्थिव चरु बनाने से भूमि से उत्पन्न दोष स्वामी को नहीं प्राप्त होता है॥३६-३७॥
विकृतं सविकारं कुसुमं पुष्पं फलं वा ग्रामात् पुराद् नगराद्वा बहिः कार्यम्। गृहीत्वा
वा त्यजेत्। अत्रास्मिन् उत्पाते सौम्यः सोमदैवत्यश्चरुः कार्यः। तथा पशुश्छागः शान्त्यै
शान्त्यर्थे निर्वाप्यो देयः। वाशब्दोऽत्र समुच्चये।
सस्ये च विकृतिं विकारं दृष्ट्वा विलोक्य तत्क्षेत्रं प्रथममादौ द्विजेभ्यो ब्राह्मणेभ्यो
देयम्। अत्रास्मिन्नुपसर्गे तस्यैव क्षेत्रस्यैव मध्ये भौमं भूमिदैवतं पार्थिवं चरुं कृत्वा तज्जं
भूमिजं दोषं स्वामी न समुपैति न प्राप्नोति॥३६-३७॥
इति सस्यवैकृतम्
•
अथान्यानुत्पातानाह—
दुर्भिक्षमनावृष्टावतिवृष्टौ क्षुद्भयं परभयं च।
रोगो ह्यनृतुभवायां नृपतिवधोऽनभ्रजातायाम्॥३८॥
अनावृष्टि हो तो दुर्भिक्ष, अतिवृष्टि हो तो दुर्भिक्ष तथा शत्रुभय, वर्षा ऋतु से भिन्न
ऋतु में वृष्टि हो तो रोग और बिना मेघ की वृष्टि हो तो राजा की मृत्यु होती है॥३८॥
अनावृष्टौ दुर्भिक्षं भवति। अतिवृष्टावतिवर्षणे क्षुद्भयं दुर्भिक्षभयं परभयं च भवति।
अनृतुभवायां वर्षाकालं वर्जयित्वा अन्यस्मिन्नृतौ वृष्टौ रोगो भवति। अनभ्रजातायां मेघं
विनोत्पन्नायां वृष्टौ नृपतिवधो राज्ञो मरणं भवति॥३८॥
अथान्यानप्याह—
शीतोष्णविपर्यासो नो सम्यगृतुषु च सम्प्रवृत्तेषु।
षण्मासाद्राष्ट्रभयं रोगभयं दैवजनितं च॥३९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA