बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 480, कुल 728 में से
संदर्भ में पढ़ें४३८ बृहत्संहिता
दीप्तैः सूर्याभिमुखैर्मृगैरारण्यैर्विहङ्गैश्च पक्षिभी रुतः कृतः शब्दः। कलुषोऽनिर्मलः।
सन्ध्यात्रयोत्थितो दिनस्य प्राङ्मध्यान्तसन्ध्यासूत्पन्नः। उदयमध्याह्नास्तमयेषु दृश्यत इत्यर्थः।
अतिमहानतिविस्तीर्णस्तथाभूतो भयकृद्भयं करोति। तथा च गर्गः—
उदयास्तमयोर्मध्ये सूर्यचन्द्रमसोर्द्वयोः।
परिवेषः प्रदृश्येत तद्राष्ट्रमवसीदति।।
तडिदुल्काद्यैर्हतो नृपं हन्ति शस्त्रेण। तडिद् विद्युत्। उल्का प्रसिद्धा। आद्यग्रहणा-
दिव्यान्तरिक्षभौमा उत्पाताः। एतैस्तडिदुल्काद्युत्पातैर्हतो नृपं राजानं शस्त्रेण हन्ति घातयति।
अन्यदप्याह—
प्रतिदिनमर्कहिमांश्वोरहर्निशं रक्तयोनिरिन्द्रवधः।
परिविष्टयोरभीक्ष्णं लग्नास्तमयस्थयोस्तद्वत् ॥९॥
यदि प्रत्येक दिन सूर्य का और रात्रि में चन्द्र का रक्त वर्ण का परिवेष दिखाई दे तो
राजा का नाश करता है तथा सदा उदय या अस्त काल में सूर्य या चन्द्र का परिवेष दिखाई
दे तो भी राजा का नाश करता है ॥९॥
अर्क आदित्यः। हिमांशुश्चन्द्रः। तयोरर्कहिमांश्वोः प्रतिदिनमहर्निशमहोरात्रं रक्तयोर्लो-
हितवर्णयोः सूर्यो लोहितवर्णोऽहनि चन्द्रो निशि यदि दृश्यते तदा नरेन्द्रवधो राज्ञो मरणं
भवति। परिविष्टयोरभीक्ष्णं तथा लग्नास्तमयस्थयोः। लग्नग्रहणेनोदयकाल उच्यते। अर्क-
चन्द्रयोरुदयास्तमयस्थयोरभीक्ष्णं पुनः पुनः परिविष्टयोस्तद्वत्तेन प्रकारेण नरेन्द्रवध इत्यर्थः।
तथा च गर्गः—
दिवा सूर्ये परिवेषो रात्रौ चन्द्रे यदा भवेत्।
एकस्मिंश्चेदहोरात्रे तदा नश्यति पार्थिवः।।
एतेन विधिना नित्यं सप्ताहं परिविष्यते।
सर्वभूतविनाशः स्यात्तस्मिन्नुत्पातदर्शने।।
अत्र केचिल्लग्नास्तनभःस्थयोरिति पठन्ति। नभःशब्देन मध्याह्नकाल उच्यते। उदय-
मध्याह्नास्तमयेषु यदि दृश्यते तदा नरेन्द्रवधः। तथा च समाससंहितायाम्—
शृङ्गाटकचापविकारसन्निभः परुषमूर्तिरतिबहुलः।
सकलगगनानुचारी बहुवर्णश्चावलम्बी च।।
द्वित्रिगुणः खण्डो वा सन्ध्यात्रयमुत्थितो ग्रहच्छादी।
परिवेषः पापफलो ग्रहरोधी हन्ति तद्भक्तीः।।
स्निग्धो मधुघृतशिखिचाषपत्रनीलोत्पलाब्जरजतनिभः।
क्षेमसुभिक्षाय भवेत् परिवेषोऽर्कस्य शशिनो वा।। इति॥९॥
अन्यदप्याह—
सेनापतेर्भयकरो द्विमण्डलो नातिशस्त्रकोपकरः।
त्रिप्रभृति शस्त्रकोपं युवराजभयं नगररोधम् ॥१०॥