बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 481, कुल 728 में से
संदर्भ में पढ़ेंपरिवेशलक्षणाध्यायः ४३९
दो मण्डल वाला परिवेष सेनापति को भय करने वाला होता है; किन्तु अधिक
शस्त्रभय करने वाला नहीं होता। तीन आदि (तीन, चार, पाँच) मण्डल वाला परिवेष
शस्त्रकोप, युवराज को भय और शत्रुओं से नगर का अवरोध कराता है॥१०॥
द्वे मण्डले यस्यासौ द्विमण्डलः परिवेषः सेनापतेश्चमूनाथस्य भयं भीतिं करोति।
नातिशस्त्रकोपकरः, अतिशस्त्रकोपं च न करोति; ईषत्करोतीत्यर्थः। त्रिप्रभृति शस्त्रकोप-
मिति, त्रिप्रभृतीनि मण्डलानि त्रीणि चत्वारि पञ्चधा शस्त्रकोपम्। युवराजोऽर्धभोगी राजा।
युवराजस्य च भयम्। नगरस्य पुरस्य रोधं वेष्टनं च करोति। तथा च गर्गः—
द्विमण्डलपरीवेषः सेनापतिभयङ्करः।
युद्धे सुदारुणं कुर्याद् दृश्यते मण्डलैस्त्रिभिः॥ इति॥१०॥
अन्यद्विशेषमाह—
वृष्टिस्त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे।
होराजन्माधिपयोर्जन्मर्क्षे वाऽशुभो राज्ञः ॥११॥
यदि भौमादि कोई ग्रह, चन्द्र, कोई नक्षत्र—ये तीनों एक परिवेष में गत हों तो तीन
दिन में वृष्टि और एक मास में लड़ाई होती है। जिस राजा का जन्मलग्नेश, जन्मराशीश
या जन्मनक्षत्र परिवेष में हो, उस राजा को अशुभ फल होता है॥११॥
ग्रहेन्दुभनिरोधे। ग्रहा भौमादयः। इन्दुश्चन्द्रः। भानि नक्षत्राणि। एषां निरोधे परिवेष्टने।
एतदुक्तं भवति—चन्द्रपरिवेषमध्यगते ग्रहनक्षत्रे यदा भवतस्तदा त्र्यहेण दिनत्रयेण वृष्टि-
र्भवति। मासेन त्रिंशदहोरात्रेण वा विग्रहः कलहो भवति। तथा च गर्गः—
त्रीणि यत्रावरुध्येरन्नक्षत्रं चन्द्रमा ग्रहः।
त्र्यहेण वर्षतीन्द्रश्च मासाद्वा जायते भयम् ।।
होराजन्माधिपयोरिति। राज्ञो नृपस्य होराजन्माधिपयोः, होराधिपो जन्मलग्नपः,
जन्माधिपो राश्यधिपः, तयोस्तथा जन्मर्क्षे च जन्मनक्षत्रे निरुद्धे सति राज्ञो नृपस्याशुभः।
ग्रहाणां परिवेषगतानां फलमाह—
परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः।
जनयति च वातवृष्टिं स्थावरकृषिकृन्निहन्ता च ॥१२॥
भौमे कुमारबलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम्।
जीवे परिवेषगते पुरोहितामात्यनृपपीडा ॥१३॥
मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रेजे सुवृष्टिश्च।
शुक्रे यायिक्षत्रियराज्ञीपीडा प्रियं चान्नम् ॥१४॥
क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ।
परिविष्टे गर्भभयं राहौ व्याधिर्नृपभयं च ॥१५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA