बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 379, कुल 728 में से
संदर्भ में पढ़ेंगर्भलक्षणाध्यायः ३३७
उल्क्याभिहतं वापि केतुना वाप्यधिष्ठितम्।
न गर्भाः सम्पदं यान्ति वासवश्च न वर्षति।। इति।।२९।।
अधुनानन्तरोक्ताया दिवससंख्याया नियमं करोति—
मृगमासादिष्वष्टौ षट् षोडश विंशतिश्चतुर्युक्ता।
विंशतिरथ दिवसत्रयमेकतमर्क्षेण पञ्चभ्यः ॥३०॥
उक्त पाँच नक्षत्रों से किसी एक नक्षत्र में मार्गशीर्ष में गर्भ की वृद्धि हो तो प्रसवसमय
से ८ दिन, पौष में ६ दिन, माघ में १६ दिन, फाल्गुन में २० दिन, चैत्र में २० दिन और
वैशाख में ३ दिन तक वृष्टि होती है।।३०।।
मृगमास आदिर्येषां मासानां ते मृगमासादयस्तेषु मृगमासादिषु प्राक्पठितानां पञ्चा-
नामन्यतमेन नक्षत्रेण यदा गर्भो विवृद्धस्तदा यथासंख्यमेते दिवसा योजनीयाः। यदोक्त-
नक्षत्राणामन्यतमेन नक्षत्रेण मार्गशीर्षे मासि गर्भः सम्भूतस्तदा पञ्चनवते दिवसशतेऽतिक्रान्ते
अष्टौ दिवसान् प्रवर्षति देवः। एवं पौषे षट्। माघे षोडश। फाल्गुने चतुर्युक्ता विंशतिश्च-
तुर्विंशतिः। चैत्रे विंशतिः। अथानन्तरं वैशाखे दिवसत्रयमिति। एवं शतभिषगादिभ्यः
पञ्चभ्यो मध्यादेकतमर्क्षेण वृष्टिप्रमाणम्। अमुमेवार्थमृषिपुत्र आह—
माघे षोडशसंख्यास्तु षोडशाष्टौ च फाल्गुने।
विंशतिश्चैत्रमासे तु त्रयश्चेन्द्राग्निदैवते।।
अष्टौ सौम्येऽथ षट् पौषे संख्यास्तासु च वर्षति।
एवमेतावन्ति दिनानि पञ्चनवते दिवसशते गतेऽतिक्रान्ते प्रवर्षतीत्यर्थः। गर्भो बहुतो-
यदो भवत्यनेन वातिदिष्टं यथा प्रवर्षणे एतावती पानीयसंख्या अध्वसंख्या वाचाय्येण
समाससंहितानिबन्धने उक्ता—
पञ्चनिमित्तैः शतयोजनं तदर्द्धार्द्धमेकहान्याऽतः।
वर्षति पञ्चनिमित्ताद् रूपेणैकेन यो गर्भः।। इति।
निमित्तानि पञ्चाचार्यो वक्ष्यति—
पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः।
स भवति बहुतोयः पञ्चरूपाभ्युपेतः।। इति।
निमित्तान्येकोत्तरवृद्ध्या मार्गशीर्षमासादिषु परिपठितानि। पौषे समार्गशीर्ष इत्यादि।
तथा मृगशीर्ष्याद्या गर्भा मन्दफला इत्यनेन ग्रन्थेन मार्गशीर्षजातानां गर्भाणां पौषशुक्लजातानां
मन्दफलतोक्ता, तदपवादमाह—
सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवतीति। तेन पञ्चनिमित्तसंयुक्तो गर्भः पुष्टो
बहुतोयदो भवति। गर्भाणां पुष्टिनिमित्तान्यभिधाननिमित्तानि च प्राक्प्रदर्शितानि। विशेष-
निमित्तैर्युक्तो गर्भो बहुतोयदो भवति।।३०।।
बृ० भ० पृ०-२२