सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 378, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 378

३३६ बृहत्संहिता
लक्षणानि। तथा—'ह्लादिमृदूदक्शिवशक्रदिग्भवो मारुतः' इत्यादीनि सामान्यलक्षणानि।
एवं स्वर्तुस्वभावजनितैश्च सामान्यैर्लक्षणैर्गर्भाणां वृद्धिरुक्ता तैरेव विपरीतैर्विपर्ययस्थै-
र्विपर्ययो विपरीतो गर्भाणां हानिरिति। अर्थादेवं मध्यमैर्मध्यमं फलं वक्तव्यमिति॥२७॥
अथ येषु नक्षत्रेषु गर्भः सम्भूतो बहुतोयदो भवति तान्याह—
भद्रपदाद्वयविश्वाम्बुदेवपैतामहेष्वथर्क्षेषु ।
सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति॥२८॥
सभी ऋतुओं में पूर्वभाद्रपदा, उत्तरभाद्रपदा, उत्तराषाढ़ा, पूर्वाषाढ़ा, रोहिणी- इन
पाँच नक्षत्रों में बढ़ा हुआ गर्भ प्रसवकाल में अधिक वृष्टि करता है॥२८॥
भद्रपदाद्वयं पूर्वभद्रपदोत्तरभद्रपदे। विश्वेदेव उत्तराषाढा। अम्बुदेवः पूर्वाषाढा। पैतामहो
रोहिणी। एतेषु पञ्चसु नक्षत्रेषु सर्वेष्वप्यृतुषु वृद्धो गर्भः 'पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः'
इत्यादिभिर्गुणैः पुष्टः प्रवर्षणे बहुतोयदः प्रभूतवर्षदो भवति॥२८॥
साम्प्रतं येषु नक्षत्रेषु गर्भः सम्भूतो बहून्यहानि वर्षति तान्याह—
शतभिषगाश्लेषार्द्रास्वातिमघासंयुतः शुभो गर्भः।
पुष्णाति बहून् दिवसान् हन्त्युत्पातैर्हतस्त्रिविधैः॥२९॥
शतभिषा, आश्लेषा, आर्द्रा, स्वाती या मघा नक्षत्र में उत्पन्न गर्भ बहुत दिन तक पुष्ट
रहता है तथा उक्त पाँचों नक्षत्रों में बढ़े हुए गर्भ जितने दिन त्रिविध उत्पातों (दिव्य,
आन्तरिक्ष और भौम) से हत हों, उतने दिन तक वर्षा नहीं होती है॥२९॥
शतभिषगाश्लेषा आर्द्रा स्वातिर्मघा। एभ्यः शतभिषगादिभ्यः पञ्चभ्यः सम्भूतो गर्भः।
एतेषां मध्यादेकतमेन नक्षत्रेण शुभः शुभफलो भवति। स च बहून् दिवसान् पुष्णाति
प्रभूतान्यहानि पुष्टिं नयति। पुष्टिनिमित्तान्यभिहितानि—'ह्लादिमृदूदक्' इत्यादीनि।
हन्त्युत्पातैर्हतस्त्रिविधैरिति। एष्वेव नक्षत्रेषु विवृद्धो गर्भस्त्रिविधैरुत्पातैर्दिव्यान्तरिक्षभौ-
मैर्हतो हन्त्यात्मानं विनाशयतीत्यर्थः। एतदुक्तं भवति—हतस्तावन्त्येव दिनानि न वर्षति।
'गर्भोपघातलिङ्गान्युलकाशनिपांशुपातदिग्दाहाः' इत्याद्युक्तानि। त्रिविधमुत्पातलक्षणमाचार्येण
समाससंहितानिबन्धने स्पष्टतरमुक्तम्—
दिव्यं ग्रहर्क्षजातं भुवि भौमं स्थिरचरोद्भवं यच्च।
दिग्दाहोल्कामारुतपरिवेषाद्यं वियत्प्रभवम्॥
तथा च गर्गः—
प्राजापत्यं मघा श्लेषा रौद्रं चानिलवारुणम्।
आषाढाद्वितयं चैव तथा भद्रपदाद्वयम्॥
नक्षत्रदशकं चैतद्यदि स्याद् ग्रहदूषितम्।
न गर्भाः सम्पदं यान्ति योगक्षेमं न कल्पते॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA