सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 339, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 339

ग्रहयुद्धाध्यायः २९७
तस्मात् क्षितिजलेखासन्नव्यवहारमेवाङ्गीकृत्याऽऽचार्याऽऽर्यभटेनोक्तम्।
सर्व एव शकुनादयो यातुर्वामपार्श्वादग्रत आगत्य दक्षिणपार्श्वेन क्रामन्ति यत्तत्प्रदक्षिणं
सव्यं च। एतद्विपरीतं दक्षिणपार्श्वाद्व्वामपार्श्वगमनं यत्तदपसव्यमेष निश्चयः। 'वामेऽरिभयं
जयः सव्ये' तदुक्तं प्रदक्षिणेन जयः। आचार्येणेदं प्रदर्शितमेव 'प्रदक्षिणं तु यात्रायां जयदं
नेष्टमन्यथा' इति। वामेऽरिभयमिति सव्याद्यदन्यथा वामं विपरीतं ग्रहाणां सव्यापसव्यता।
उत्तरदिक्स्थः प्रदक्षिणो दक्षिणदिक्स्थो जेता यदा तदा तदपसव्यमिति। नन्वनुक्तं कथमवगम्यते
इदम्? अत्रोच्यते—उक्तमेवेदम्। यतोऽनुलोमेन प्रतिलोमेन वा गत्या भेदेन ग्रहाणां फलं
प्रतिभेदान्न प्रदर्शितम्। तत्र एकमेव फलं तथा चानुलोमगः प्रतिलोमगो वा दक्षिणेनोत्तरेण
वोल्लेखं करोति। तत्राप्येकमेव फलम्। तथांशुविमर्दस्याप्यनुलोमेन प्रतिलोमेनापि फल-
स्याभेदः। एवं संस्थानत्रयं चैतद्यदंशुमर्दनस्य फलमपसव्यसंज्ञितस्य तदेव फलम्—
एतदुक्तं भवति—यस्य ग्रहस्योत्तरदिक्स्थस्य यत्फलमभिहितं तस्य ग्रहस्य दक्षिण-
दिक्स्थस्यापसव्यसंज्ञितस्य जयसंयुक्तस्य तदेव फलम्। तस्मादपसव्यनिर्देशो यः स
नातिरिच्यत इति।।४-५।।
अधुना ग्रहाणां यायिनागराक्रन्दसंज्ञा आह—
रविराक्रन्दो मध्ये पौरः पूर्वेऽपरे स्थितो यायी।
पौरा बुधगुरुरविजा नित्यं शीतांशुराक्रन्दः ।।६।।
केतुकुजराहुशुक्रा यायिन एते हता घ्नन्ति।
आक्रन्दयायिपौरान् जयिनो जयदाः स्ववर्गस्य ।।७।।
सूर्य मध्याह्न समय में आक्रन्द, पूर्व में पौर और पश्चिम में यायी होता है। बुध, बृहस्पति
और शनि सदा पौर, चन्द्र आक्रन्द तथा केतु, मंगल, राहु और शुक्र यायी संज्ञक हैं। ये ग्रह
पीड़ित हों तो आक्रन्द, यायी और पौरों का नाश करते हैं; जैसे यदि आक्रन्दसंज्ञक ग्रह
पीड़ित हों तो आक्रन्द (रक्षक आदि = 'आरावे रुदिते त्रातर्य्याक्रन्द' इत्यमरः) का, यायी-
संज्ञक पीड़ित हो तो यायी (गमन करने वालों) का और पौरसंज्ञक ग्रह पीड़ित हो तो
पुरवासियों का नाश करता है तथा विजयी हों तो अपने वर्ग की विजय करते हैं।।६-७।।
रविः सूर्यो मध्ये मध्याह्नसमये आक्रन्दसंज्ञो भवति। यातुः पश्चात् स्थितः पार्ष्णिग्रा-
हस्तस्य पश्चात् स्थित आक्रन्दः। पौरः स एव पूर्वे पूर्वाह्ने दिनस्य प्रथमतत्रिभागे रविः पौरो
नागरो भवति। अपरे अपराह्ने दिनस्य पश्चिमत्रिभागे यायी भवति। यायी यो यातव्य-
स्याग्रतो याति। बुधगुरुरविजाः सौम्यजीवसौरा नित्यं सर्वकालं पौरा नागराः। शीतांशुश्चन्द्रः
सर्वकालमाक्रन्दः।
केतुकुजराहुशुक्रा यायिनः। केतुः शिखी। कुजोऽङ्गारकः। राहुः सैंहिकेयः। शुक्रो
भार्गवः। एते ग्रहा यायिनः। एत एव हता घ्नन्ति आक्रन्दयायिपौरान्। आक्रन्दयायिपौरा
ग्रहा हताः पराजिता आक्रन्दयायिपौरान्नृपान् घ्नन्ति। एत एव जयिनः स्ववर्गस्यात्मीयवर्गस्य
जयदा भवन्ति।।७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA