बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 338, कुल 728 में से
संदर्भ में पढ़ें२९६ बृहत्संहिता
यायी श्रेष्ठो विनाशमुपयाति' इत्येवमादिकं तदेव फलमुक्तं चन्द्रग्रहसमागमोक्तेन 'शशिनि
फलमुदक्स्थे यद्ग्रहस्योपदिष्टं भवति तदपसव्ये सर्वमेव प्रतीपम्' । यस्य येनार्थसम्बन्धो
दूरस्थस्यापि तदित्यनेन न्यायेन फलं वैपरीत्येन कल्प्यत इत्याचार्याऽऽर्यभटोपनिबद्धाप-
सव्यसंस्थाने च ग्रहयुद्धस्यापसव्यसंज्ञितस्य फलं कल्प्यत इति। आचार्याऽऽर्यभटश्च
प्राग्दक्षिणपरोत्तरानुक्रमेण द्रष्टुर्गहाणां परिभ्रमो यस्तमपसव्यमाह—
देवाः पश्यन्ति भगोलार्द्धमुदङ्मेरुसंस्थिताः सव्यम्।
अपसव्यं तथार्द्धं दक्षिणवडवामुखे प्रेताः।। इति।
एतैरनेकाकारैराचार्याणां दर्शनैर्मन्दधियां शिष्याणां खिलीभूतचित्तानां विकल्पिता-
विकल्पमाशङ्क्याऽऽचार्येणेदमपसव्यसंज्ञितं चतुर्थं युद्धभेदं कल्पयित्वा फलमुक्तं परा-
शरादिभिर्बहुभिरुक्तं न स्वमनीषया यथा यदेवोत्तरे स्थिते ग्रहे जेतरि फलं दक्षिणदिक्स्थे-
ऽप्यपसव्यसंज्ञिते ग्रहे जेतरि तदेव फलम्। किमत्राप्येवं मन्यसे यथा सव्यापसव्यमाचा-
र्येणानियमेनैवाभिहितम्। तथा चाह—
गन्धर्वनगरमुत्थितमापाण्डुरमशनिपातवातकरम् ।
दीप्ते नरेन्द्रमृत्युर्वार्मेऽरिभयं जयः सव्ये।।
वामपार्श्वस्थे अरिभयं जयः सव्ये। लोके च वामपार्श्वं यत्तत्सव्यमुच्यते। तथा च
भगवान् व्यास आह—
युध्यतः प्राङ्मुखस्यास्तु सुपर्णोऽयं ममाग्रतः।
सव्ये पार्श्वे च प्रद्युम्नस्तथा मे दक्षिणो भवान्।।
तथा च बादरायणः—
तत्रापि हरेर्नयनं दक्षिणमर्कः शशी सव्यम्।
'वामेऽरिभयं जयः सव्ये' इत्यस्यान्य एवार्थ उच्यते—क्षितिस्थानामन्यथा सव्याऽप-
सव्यं ग्रहर्क्षाणामन्यथा। प्राचीं दिशं गच्छतां यियासूनामुत्तरदिक्स्थः शकुनः प्राचीं दिशमा-
सादयन् दक्षिणं पर्यैति यः स प्रदक्षिण उच्यते। सव्यश्च प्रदक्षिणम्। सव्याऽपसव्ययोरभेद
एवाऽऽचार्य आह—
ऐन्द्रानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः।
कोषाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम्।। इत्यादि।
आ...र्यभटेन सव्यापसव्यं भूगतानां सत्त्वानाममुक्तमतः कस्माद् ग्रहर्क्षाणामुक्तमप्यु-
च्यते। मेरुमूलनिवासिनि यानि सत्त्वानि तानि मिथुनान्तगमप्यर्कं क्षितिजलेखासन्नमेव
पश्यन्ति तथैव वडवामुखनिवासिनि। अत्रोक्तमेवाऽऽचार्येण—
यन्मात्रं भूवृत्तात् क्षणद्वयेनोन्नतिं व्रजत्यर्कः।
तन्मात्रान्तरचारिणममराः पश्यन्ति नोर्ध्वमधः।।
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA