बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 336, कुल 728 में से
संदर्भ में पढ़ेंचतुर्विधमुक्तं कथितम्। कैर्भेदोल्लेखांशुमर्दनासव्यैः। भेदेनोल्लेखेनांशुमर्दनेनापसव्येन।
यत्र ग्रहद्वयमप्येकबिम्बमिव लक्ष्यते स भेदः। अधःस्थेनोर्ध्वस्थश्छाद्यत इति यावत्।
यत्र ग्रहस्य ग्रहेण बिम्बपरिधिसंस्पर्शः क्रियते स उल्लेखः। अंशवो रश्मयस्तेषामंशूनां
किरणानां परस्परं मर्दनम्। मृद् क्षोदे। भेदोल्लेखस्य व्यतिरेकेण आसन्नयोर्द्वयोर्ग्रहयोः
परस्परं रश्मयः संयुक्ता विहन्यमाना इव लक्ष्यन्ते तदंशुमर्दनं कथ्यते। अपसव्यः प्रदक्षिण
उच्यते समं कृत्वा दक्षिणोत्तरावस्थानमपसव्यमुच्यते। आचार्येण चन्द्रग्रहसमागमे अपसव्य-
लक्षणं कृतम्—'शशिनि फलमुदक्स्थे यद् ग्रहस्योपदिष्टं भवति तदपसव्ये सर्वमेव
प्रतीपम्' इति। एतदुक्तं भवति—ग्रहस्योत्तरदिक्स्थे शशिनि क्वचित्—
हस्तमात्रं भवेद्युद्धं बाहुमात्रं समागमः।
वितस्तिमात्रमुल्लेखो भेदश्चैव निरङ्गुलः।। इति।
नियतफलमपसव्ये दक्षिणदिक्स्थे तदेव फलं विपरीतम्। अमुमेवार्थमृषिपुत्र आह—
दक्षिणेनापसव्यं स्यादुत्तरेण प्रदक्षिणम्।
ग्रहाणां चन्द्रमा ज्ञेयो नक्षत्राणां तथैव च।।
ननु ग्रहाणां नक्षत्राणां च चन्द्रमाः प्रदक्षिणश्चापसव्यश्च पठितो न परस्परं
ग्रहाणामपसव्यता प्रदक्षिणता च। अत्र वृद्धगर्ग आह—
ग्रहाणां विजये भङ्गे नक्षत्राणां च संश्रये।
कथं प्रदक्षिणं ज्ञेयमपसव्यं तथैव च।।
नक्षत्राणां ग्रहाणां वा यदा तूत्तरगः शशी।
तत्प्रदक्षिणमित्याहुर्भवोत् क्षेमसुवृष्टये।।
नक्षत्राणां ग्रहाणां वा यदा दक्षिणतो व्रजेत्।
अपसव्यं तदैव स्यादवृष्टिभयलक्षणम्।।
सर्वेषां सामान्यमपसव्यलक्षणमपसव्ये वायं न भवति। अपसव्येऽर्थे यदेवापसव्यं
तदेव सव्यमिति। भेदश्चोल्लेखश्चांशुमर्दनं चाऽसव्यं च भेदोल्लेखांशुमर्दनासव्यानि, तैश्च-
तुर्भिर्गतिविशेषैर्ग्रहाणां चतुष्कारमेव युद्धं पराशराद्यैर्मुनिभिरुक्तं पराशरगर्गकाश्यपवज्र-
वसिष्ठैरभिहितम्।
पराशराद्यैरित्यनेन मुनीनां वचनभेदं प्रदर्शयति। यथा ऋषिपुत्रादिभिर्ग्रहयुद्धपञ्चदश-
प्रकारमुक्तम्।
पाराशरादीनामेव यन्मतं तच्चाऽऽचार्यस्यापि स्वसिद्धान्ते येन स्थानस्थानेष्वाह—
गर्गवसिष्ठपराशरमतमेतदिति। तथा च पराशरः—
भेदनमारोहणमुल्लेखनं रश्मिसंसर्गश्चेति ग्रहयुद्धं चतुर्विधमाचक्षते कुशलाः। तेषां
पूर्वात् पूर्वो गरीयान्। तथा च गर्गः—
छादनं रोधनं चैव रश्मिमर्दस्तथैव च।
अपसव्यं ग्रहाणां च चतुर्धा युद्धमुच्यते।।