बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 335, कुल 728 में से
संदर्भ में पढ़ेंअथ ग्रहयुद्धाध्यायः
अथ ग्रहयुद्धाध्यायो व्याख्यायते। तत्रादावेवोपोद्घातमाह—
युद्धं यथा यदा वा भविष्यमादिश्यते त्रिकालज्ञैः।
तद्विज्ञानं करणे मया कृतं सूर्यसिद्धान्ते ॥१॥
जिस समय जिस प्रकार से ताराग्रहों का युद्ध त्रिकालज्ञों ने कहा है, उसको सूर्यसिद्धान्त
से लेकर मैंने करण ( पञ्चसिद्धान्तिका ) में कहा है॥१॥
यदा यस्मिन् काले यथा वा येन प्रकारेण वा ताराग्रहाणां युद्धं जयपराजयं त्रिकाल-
ज्ञैस्त्रिकालविद्भिरतीतवर्तमानानागतकालज्ञैर्भविष्यं भावि यदादिश्यते कथ्यते तद्विज्ञानं
तस्य ग्रहयुद्धस्य विज्ञानं यथा ज्ञायते तथा मया करणे पञ्चसिद्धान्तिकायां सूर्यसिद्धान्ते
कृतमिति। केचित् सूर्यसिद्धान्तादिति पठन्ति। सूर्यसिद्धान्ताद् भगवद्रविप्रणीतात् सिद्धान्ता-
दानीय कृतमिति॥१॥
अथ युद्धकारणमाह—
वियति चरतां ग्रहाणामुपर्युपर्य्यात्ममार्गसंस्थानाम्।
अतिदूराद् दृग्विषये समतामिव सम्प्रयातानाम् ॥२॥
आसन्नक्रमयोगाद् भेदोल्लेखांशुमर्दनासव्यैः।
युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभ