बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 194, कुल 728 में से
संदर्भ में पढ़ें१५४ बृहत्संहिता
योगान्तिकेति। मूलम्, द्वे आषाढे पूर्वाषाढोत्तराषाढे—एतानि नक्षत्राणि इन्दुसुतस्य
बुधस्य योगान्तिका नाम्नी गतिः।
घोरेति। श्रवणम्, त्वाष्ट्रं चित्रा, वसुदैवं धनिष्ठा, वारुणं शतभिषग्—एतानि नक्षत्राणि
घोरा नाम्नी गतिः।
पापाख्येति। सावित्रं हस्तः, मैत्रमनुराधा, इन्द्राग्निदैवतं विशाखा—एतानि नक्षत्राणि
पापा नाम्नी गतिः। इतिशब्दः प्रकाराय। तथा च पराशरः—
‘अथास्य गतयः सप्त च प्राकृता विमिश्रा संक्षिप्ता तीक्ष्णा घोरा पापा योगान्तिका
च। तत्र प्राकृता याम्याग्नेयरोहिणीवायव्यानि। मिश्रा सौम्यार्द्रा मघाश्लेषा च। संक्षिप्ता
पुष्यार्यम्णभाग्यादित्यानि। तीक्ष्णा अजपादतश्चत्वारि ज्येष्ठा च। घोरा त्रीणि श्रवणादीनि
त्वाष्ट्रं च। पापा सावित्रेन्द्राग्निमैत्राणि। योगान्तिका मूलमाषाढे’।।९-११।।
अथ पराशरमतेनाऽऽसामेवोदयास्तलक्षणमाह—
उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ॥१२॥
चत्वारिंशत्४० त्रिंशद् ३० द्विसमेता
विंशति २२र्दिनवकं च १८।
नव९ मासार्द्धं१५ दश चैक-
संयुताः ११ प्राकृताद्यानाम् ॥१३॥
उदय और अस्तदिन से पूर्वोक्त गति का लक्षण कहते हैं। प्राकृता नाम की गति में
स्थित बुध का उदय हो तो चालीस दिन तक उदित और अस्त हो तो चालीस दिन तक
अस्त रहता है एवं मिश्रा गति में ३० दिन, संक्षिप्ता गति में २२ दिन, तीक्ष्णा गति में १८
दिन, योगान्तिका गति में ९ दिन, घोरा गति में १५ दिन तथा पापा गति में स्थित बुध का
उदय हो तो ९ दिन तक उदित और अस्त हो तो ९ तक अस्त रहता है।।१२-१३।।
स एव पराशरमुनिर्गतिलक्षणं प्राह—उदयदिवसैः प्रवासदिवसैः। उदयः सूर्य-
मण्डलान्निर्गमः। प्रवासस्तत्रैवास्तमयः। तैश्च दिवसैर्गतिलक्षणं प्राहोक्तवान्।
चत्वारिंशदिति। एतानि चत्वारिंशादादीनि प्राकृताद्यानां गतीनामुदये प्रवासे च प्रमाणम्।
तद्यथा—प्राकृतायां गतौ बुधः स्थित उदेति तदा चत्वारिंश४०दिनान्युदित एव तिष्ठति।
अथास्तमेति तदा चत्वारिंश४०दिनान्यस्तमित एव तिष्ठति। एवं मिश्रायां त्रिंशत् ३०।
संक्षिप्तायां द्विसमेता विंशतिर्द्वाविंशतिः २२। तीक्ष्णायां द्विनवकमष्टादश १८। योगान्तिकायां
नव ९। घोरायां पञ्चदश १५। पापाख्यायां च दश चैकसंयुता एकादश११दिनानीति। यद्यपि
गणितवासनयैतन्नोपपद्यते तथापि पराशरमङ्गीकृत्याऽऽचार्येणोक्तम्। तथा च पराशरः—
‘अथ चत्वारिंशत्त्रिंशद्द्वाविंशत्यष्टादशपञ्चदशैकादशनवरात्राणि गतिक्रमादुदितोऽभि-
दृश्यते तान्येवास्तमितो भवति। उष्णाशीतवाय्वभ्रसूर्येन्दुग्रहणाद्योदयति सस्यविघाताय
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA