सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 195, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 195

बुधचाराध्यायः १५५
चे'ति। न केवलं पराशरेणोक्तं यावद् गर्गादिभिरपि। तथा च वृद्धगर्गः—
चत्वारिंशत्प्राकृतायां गतावालक्ष्यते बुधः।
मासमेकं विमिश्रायां दर्शयित्वास्तमर्हति।।
अह्नां द्वाविंशतिं सार्द्धं संक्षिप्तामेत्य लक्ष्यते।
अष्टादशाहं तीक्ष्णायां घोरायां दश पञ्च च।।
पापायां पादहीनानि तथैकादश तिष्ठति।
योगान्तिकायामिन्दुसूनुर्नवाहं लक्ष्यते तथा।।
चारकालो य एवोक्तः सोमपुत्रस्य भागशः।
अस्तकालः स एव स्यात् सूर्यमण्डलचारिणः।।
तथा च कश्यपः—
चत्वारिंशत्तथा त्रिंशद्दिनानि द्वौ च विंशतिः।
अष्टादशार्द्धमासं च दश चैकयुतानि च।।
नव च प्राकृताद्यासु सोमजस्तूदितस्तथा।
अस्तं गतः सर्वकालं तिष्ठतीति विनिश्चयः।।
आचार्यस्यैतन्नाभिमतम्। यतः समाससंहितायामनेनैवोक्तम्—
प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः ।
गतयो लक्षणमासां नोदयदिवसैः स्फुटं भवति।।
स्पष्टा पराशरमते स्वाती च प्राकृता त्रिभं याम्यात्।
मिश्रा गतिः शशिशेखरभुजगपितृदेवतासौम्यैः।।
संक्षिप्ता नाम गतिः पुनर्वसुः फल्गुनीद्वयं पुष्यः।
तीक्ष्णा भद्रपदाद्यं नक्ष्क्षत्रचतुष्टयं ज्येष्ठा।।
मूलत्र्यक्षं योगा घोरा श्रवणत्रिभं च सत्वाष्ट्रम्।
पापाख्या तु विशाखा हस्तो मैत्रं च शशिसूनोः।। इति।।१२-१३।।
अथैतासां फलान्याह—
प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम्।
संक्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ।।१४।।
प्राकृत गति में स्थित बुध आरोग्य, वृष्टि, धान्य की वृद्धि और क्षेम करता है। संक्षिप्ता
गति में स्थित बुध मिश्रित फल (मध्यम फल = साधारण आरोग्य, साधारण वृष्टि,
साधारण धान्य की वृद्धि और साधारण क्षेम) देता है और शेष (तीक्ष्णा, योगान्तिका,
घोरा और पापा) गति में विपरीत फल (अनारोग, अवृष्टि, धान्य का नाश और अक्षेम)
करता है।।१४।।
प्राकृतगत्यां स्थिते बुधे आरोग्यं नीरोगता, वृष्टिर्वर्षणम्, प्रकृष्टा अभिप्रभूता सस्यानां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA