बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 187, कुल 728 में से
संदर्भ में पढ़ेंभौमचाराध्यायः १४७
यो राजा स विनश्यति विनाशमायाति। लोके च शस्त्रोद्योगान्द्वयं भवति। शस्त्राणामुद्योगः
संग्रामः। अवृष्टिर्वषणं च भवति।।८।।
अन्यदपि योगवशेनौह—
भित्त्वा मघां विशाखां भिन्दन् भौमः करोति दुर्भिक्षम्।
मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति ॥९॥
मघा नक्षत्र का भेदन करने के उपरान्त मंगल यदि विशाखा नक्षत्र का भेदन करता हो
तो दुर्भिक्ष करता है। यदि रोहिणी नक्षत्र का भेदन करता हो तो जनों में भयङ्कर मरक
(मरी) करता है।।९।।
भौमोऽङ्गारको मघां भित्त्वा मघायोगतारकाभेदं कृत्वा यदि विशाखां भिन्दन् तामपि
पुनर्भिनत्ति तदा दुर्भिक्षं क्षुद्भयं करोति। यदि रोहिणीं भित्त्वा याति रोहिण्या योगतारकभेदनं
कृत्वा गच्छति तदा घोरं तीव्रं मरकं जनानां करोति विदधाति।।९।।
अन्यदप्याह—
दक्षिणतो रोहिण्याश्चरन्महीजोऽर्घवृष्टिनिग्रहकृत्।
धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान् ॥१०॥
यदि रोहिणी नक्षत्र के दक्षिण से मङ्गल विचरण करता हो तो महँगी और अनावृष्टि
करता है। यदि धूमयुक्त या शिखायुक्त मङ्गल दृष्टिगोचर हो तो पारियात्र पर्वत पर स्थित
मनुष्यों का नाश करता है।।१०।।
महीजोऽङ्गारको रोहिण्या दक्षिणतश्चरन् रोहिण्या योगतारकस्य दक्षिणभागेन गच्छन्
अर्घस्य वृष्टेश्च निग्रहं करोति विनाशयतीत्यर्थः। अर्घस्य निग्रहः स्वल्पत्वम्। वृष्टेर्निग्रहश्चा-
भावः। धूमायन् सशिखो वेति। धूमायन् धूममुद्वहन् सशिखः सचूडो वा यदि दृश्यते तदा
पारियात्रस्थान् विनिहन्यात्। पारियात्रः पर्वतः। तत्र स्थितान् जनान् हन्याद् घातयेत्।।१०।।
अथ भौमस्य वार्षिकाणि नक्षत्राण्याह—
प्राजापत्ये श्रवणे मूले त्रिषु चोत्तरेषु शाक्रे च।
विचरन् घननिवहानामुपघातकरः क्ष्मातनयः ॥११॥
यदि मङ्गल रोहिणी, श्रवण, मूल, उत्तराफाल्गुनी, उत्तराषाढा, उत्तराभाद्रपदा या ज्येष्ठा
नक्षत्र में विचरण करता हो तो मेघों का नाश करता है।।११।।
क्ष्मातनयोऽङ्गारकः प्राजापत्ये रोहिण्यां स्थितः श्रवणे मूले त्रिषु नक्षत्रेषूत्तरेषु उत्तर-
शब्द आदौ येषाम्। उत्तरफल्गुन्युत्तराषाढोत्तरभद्रपदासु च। तिसृषूत्तरासु वा पाठः। शाक्रे
ज्येष्ठायाम्। चशब्दः समुच्चये। एतेष्वेकतमे विरचन्निवसन् घननिवहानां मेघवृन्दानामु-
पघातकरो विनाशकर्ता भवत्यवृष्टिकृदित्यर्थः।।११।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA