बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 186, कुल 728 में से
संदर्भ में पढ़ें१४६ बृहत्संहिता
यदि पूर्वाफाल्गुनी या उत्तराफाल्गुनी नक्षत्र में उदित होकर मङ्गल उत्तराषाढा में जाकर
वक्री होता हो और बाद में रोहिणी में जाकर अस्त होता हो तो वह तीनों लोकों (स्वर्ग,
मर्त्य और पाताल) को पीड़ित करता है।।६।।
भाग्यं पूर्वफल्गुनी। अर्यमा उत्तरफल्गुनी। भौमोऽङ्गारकोऽनयोरेकतरे यद्युदितो भवति
रविमण्डलनिर्गतः। ततोऽग्रतो वैश्वदैवते उत्तराषाढायां निवर्तते वक्रं करोति तथा प्राजापत्ये
रोहिण्यामस्तमितो यदि भवति तदा त्रीनपि भूर्भुवःस्वराख्यांल्लोकांस्त्रिपीडयत्युपतापयति।
तथा च पराशरः—
फल्गुन्यामुदयं कृत्वा वक्रं स्याद्वैश्वदैवते।
प्राजापत्ये प्रवासश्च त्रैलोक्यं तत्र पीड्यते।। इति।।६।।
अन्यदपि विशेषमाह—
श्रवणोदितस्य वक्रं पुष्ये मूर्द्धाभिषिक्तपीडाकृत् ।
यस्मिन्नृक्षेऽभ्युदितस्तद्विग्व्यूहान् जनान् हन्ति ॥७॥
यदि श्रवण नक्षत्र में उदित मङ्गल पुष्य में जाकर वक्री होता हो तो राजाओं को
पीड़ित करता है तथा जिस नक्षत्र में उदित हो उस नक्षत्र की दिशा (नक्षत्रकूर्मोक्त दिशा)
और व्यूह (नक्षत्रव्यूह) जहाँ हो, वहाँ के जनों का नाश करता है।।७।।
श्रवणस्थस्याङ्गारकस्यार्कमण्डलादुदितस्य यद्यग्रतः पुष्ये वक्रं भवति तदा मूर्द्धाभि-
षिक्तानां राज्ञां पीडां करोति। तथा च पराशरः—
उदितः श्रवणे भौमः पुष्ये वक्रं चरेद्यदि।
मूर्द्धाभिषिक्ता राजानो विनश्येयुः परस्परम्।।
यस्मिन्नृक्षेऽभ्युदित इति। सूर्यमण्डलस्थो यस्मिन्नृक्षे यत्र नक्षत्रे स्थितोऽभ्युदितः
सूर्यमण्डलादुद्गतस्तस्य नक्षत्रस्य या दिक् नक्षत्रकूर्मोक्ता यश्च तस्य व्यूहो नक्षत्रव्यूहोक्तस्तत्र
ये जनास्तान् हन्ति घातयति। तथा च पराशरः—
यथा जनपदव्यूहे दिग्विभागः प्रदर्शितः।
तस्य वै मोहितं कुर्याल्लोहिताङ्गस्तथा मुखम्।। इति।।७।।
अन्यदपि विशेषफलमाह—
मध्येन यदि मघानां गतागतं लोहितः करोति ततः ।
पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयमवृष्टिः ॥८॥
यदि मघा नक्षत्र में जाकर मंगल उसी में वक्री होता हो तो पाण्ड्यदेशीय राजा का
नाश करता है तथा शस्त्रभय और अनावृष्टि करता है।।८।।
लोहितोऽङ्गारको यदि चेन्मघानां मध्ये न गतागतं करोति स्पष्टगतेस्तन्मध्ये तारकाणां
गत्वा पुनर्वक्रगतेरागमनं तन्मध्ये नैव करोति ततस्तस्माद्धेतोः पाण्ड्यो नृपः पाण्ड्यदेशे
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA