बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
Adh. XXXIX. Sl. 2-5] एकोनचत्वारिंशोऽध्यायः 303
तथा च गर्गः
यदान्तरिक्षे बलवान् मारुतो मारुताहतः ।
पतत्यधः स निर्घातो भवेदनिलसम्भवः ॥
अर्कोदयेऽधिकरणिकन्नृपधनियोधाङ्गनावाणिग्वेश्याः ।
आप्रहरांशेऽजाविकमुपहन्याच्छूद्रपौरांश्च ॥२॥
आमध्याह्नाद्राजोपसेविनो ब्राह्मणांश्च पीडयति ।
वैश्यजलदांस्तृतीये चौरान् प्रहरे चतुर्थे तु ॥३॥
अस्तं याते नीचान् प्रथमे यामे निहन्ति सस्यानि ।
रात्रौ द्वितीयामे पिशाचसङ्घान् निपीडयति ॥४॥
तुरगकरिणस्तृतीये विनिहन्याद्यायिनश्चतुर्थे च ।
भैरवजर्जरशब्दो याति यतस्तां दिशं हन्ति ॥५॥
Slokas 2-5.—At Sunrise such a thunder destroys
judges, kings, moneyed persons, warriors, women, traders
and courtezans ; in the first (watch of the day) period of
three hours after Sunrise, goats, sheep, Sudras and citi-
zens ; in the second watch, kings’ servants and Brahmins;
in the third watch, merchants and clouds ; in the fourth,
thieves; at Sunset, iniquitous persons ; in the first watch
of the night, crops ; in the second, groups of goblins ; in
the third, horses and elephants; and in the fourth, mar-
chers. The direction from which issues the sound, terrific
and hollow (like that of a breaking pot), is destroyed.
तथा च समाससंहितायाम् ।
निर्घातोऽहोरात्रेण हन्ति नृपपौरभृत्यराष्ट्रजनान् ।
तस्करविप्रांश्चार्कोदयाद्दिशं पतति यस्याम् ॥
तथा च गर्गः
यदा सूर्योदये प्राप्ते निर्घातः श्रूयते भुवि ।
क्षत्रिणा योषमुख्याश्च पीड्यन्तेऽत्र न संशयः ॥
प्रहरांशे तथा वैश्यान् हन्याद्राजोजीविनस्तथा ।
परिमृते हरौ वैश्या अपराह्णे तु दस्यवः ॥
304 बृहत्संहितायाम् [Adh. XL Sl. 1-3.
नखिचोराँश्च हन्यात्स अस्तमेति दिवाकरे ।
प्रथमे प्रहरे सस्यान्यर्द्धरात्रे तु राक्षसान् ॥
रात्रित्रिभागे वैश्यांश्च प्रत्यूषे चाहितो भवेत् ।
यां दिशं चाभिहन्येत निर्घातो भैरवः स्वनः ॥
तद्देश्यान् हन्ति देशांश्च सर्वदिग्भक्तयस्तथा ।-इति.
Thus ends the 39th Adhyaya on "Hurricanes."
सस्यजातकम् ॥४०॥ Growth of Crops.
———
वृश्चिकवृषप्रवेशे भानोर्ये बादरायणेनोक्ताः ।
ग्रीष्मशरत्सस्यानां सदसद्योगाः कृतास्त इमे ॥१॥
Sloka 1.—On the authority of Sage Badarayana are
stated the following Yogas, planetary configurations—both
good and bad—for the growth of summer and autumnal
crops at the time of the Sun's entry into Vrischika and
Vrishabha respectively.
भानोरलिप्रवेशे केन्द्रैस्तत्साच्छुभग्रहाक्रान्तैः ।
बलवद्भिः सौम्यैर्वा निरीक्षिते ग्रैष्मिकविवृद्धिः ॥२॥
Sloka 2.—If at the time of the Sun's entry into
Vrischika, the Kendras from him are occupied by benefics
or he is aspected by (or conjoined with) strong benefics,
summer crops will thrive splendidly.
तथा च बादरायणः
वृश्चिकसंस्थे सूर्ये सौम्यैर्बलिभिर्निरीक्षिते वृद्धिम् ।
तैरेव केन्द्रगैर्वा ग्रीष्मजधान्यस्य निर्दिशेन्महतीम् ॥
अष्टमराशिगतेऽर्के गुरुशशिनोः कुम्भसिंहसंस्थितयोः ।
सिंहघटसंस्थयोर्वा निष्पत्तिर्ग्रीष्मसस्यस्य ॥३॥
Sloka 3.—When the Sun is posited in Vrischika, and
Jupiter and the Moon in Kumbha and Simha, or vice
versa, summer crops will prosper.
Adh. XL. Sl. 4-7] चत्वारिंशोऽध्यायः 305
अर्कात्सिते द्वितीये बुधेऽथवा युगपदेव वा स्थितयोः।
व्ययगतयोरपि तद्वन्निष्पत्तिरतीव गुरुदृष्ट्या ॥४॥
Sloka 4.—When Venus or Mercury, or both, are
posited in the second house from the Sun (in Vrischika),
or similarly in the 12th house, summer corn will grow
well. If the Sun in addition be aspected by Jupiter, the
growth will be splendid.
तथा च बादरायणः
सूर्याद्बुधे द्वितीये शुक्रे वा युगपदेव तयोः ।
रिष्फगयोरप्येवं निष्पत्तिर्गुरुदृशाऽतीव ॥
शुभमध्येऽलिनि सूर्याद्गुरुशशिनोः सप्तमे परा सम्पत् ।
अल्यादिस्थे सवितरि गुरौ द्वितीयेऽर्द्धनिष्पत्तिः ॥५॥
Sloka 5.—When Vrischika, wherein is posited the
Sun, is surrounded on either side, i. e., the 2nd and the
12th, by benefics, i. e., Mercury and Venus, and when
the 7th house from the Sun is occupied by Jupiter and
the Moon, there will be excellent growth of corn. When
the Sun is posited in the initial part of Vrischika and
Jupiter in the second house from it, the growth will be
only half.
लाभहिबुकार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः ।
सस्यस्य परा सम्पत् कर्मणि जीवे गवां चाप्या ॥६॥
Sloka 6.—When Venus, the Moon and Mercury are
posited in their order in the 11th, 4th and 2nd from the
Sun in Vrischika, corn will thrive well. If in the above
Yoga, Jupiter is posited in the 10th, the great prosperity of
cattle also is assured.
कुम्भे गुर्गवि शशी सूर्योऽलिमुखे कुजार्कजौ मकरे ।
निष्पत्तिरस्ति महती पश्चात् परचक्रभयरोगम् ॥७॥
बृ. सं. 39
306 बृहत्संहितायाम् [Adh. XL Sl. 8-10.
Sloka 7.—If at the time of the Sun's entry into
Vrischika, Jupiter be posited in Kumbha, the Moon in
Vrishabha, Mars and Saturn in Makara, there is great
prosperity of corn; but later, there will be danger from
hostile invasion and disease.
मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्यलिगः ।
पापः सप्तमराशौ जातं जातं विनाशयति ॥८॥
Sloka 8.—The Sun in Vrischika, being surrounded
on both sides (2nd and 12th) by malefics, destroys crops.
If there be a malefic in the 7th house from Vrischika,
crops will be destroyed even though they grow well.
तथा च बादरायणः
क्रूरान्तःस्थः सूर्यो वृश्चिकसंस्थो विनाशयति सस्यम् ।
जातं जातं पापः सप्तमसंस्थो विनाशयति ॥
अर्थस्थाने क्रूरः सौम्यैरनिरीक्षितः प्रथमजातम् ।
सस्यं निहन्ति पश्चादुप्तं निष्पादयेद्व्यक्तम् ॥९॥
Sloka 9.—A malefic in the 2nd house from Vrischika,
being unaspected by benefics will destroy the crops grown
first; but wlll enable those sown subsequently to bear
fruit fully.
जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्चिकस्थस्य ।
सस्यविपत्तिं कुरुतः सौम्यैर्दृष्टौ न सर्वत्र ॥१०॥
Sloka 10.—Mars and Saturn posited in the 7th and
another Kendra house from the Sun in Vrischika destroy
crops; and if aspected by benefics, they do not de-
stroy corn everywhere.
तथा च बादरायणः
सूर्यात्सप्तमसंस्थः पापोऽन्यः केन्द्रगश्च हानिकरौ ।
सौम्यग्रहसन्दृष्टौ न तथा सर्वत्र निर्दिष्टौ ॥
Adh. XL. Sl. 11-14.] चत्वारिंशोऽध्यायः 307
वृश्चिकसंस्थादर्कात् सप्तमषष्ठोपगौ यदा क्रूरौ ।
भवति तदा निष्पत्तिः सस्यानामर्घपरिहानिः ॥११॥
Sloka 11.—When the two malefics occupy the 6th
and the 7th houses from the Sun in Vrischika, there will
be good growth of crops, but a fall in the price will take
place.
विधिनानेनैव रविवृषप्रवेशे शरत्समुत्थानाम् ।
विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ज्ञैः ॥१२॥
Sloka 12.—According to the rule enunciated above,
scholars should declare the (good growth or destruction)
prosperity or adversity of the autumnal corn when the
Sun enters Taurus.
तथा च बादरायणः
य एव योगोऽभिहितो वृश्चिकस्थे दिवाकरे ।
वृषेऽपि ते शारदानां चिन्तनीया यथार्थतः ॥-इति.
त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् ।
ग्रैष्मिकधान्यं कुरुते समर्घमभयोपयोगयं च ॥१३॥
Sloka 13.—When the Sun, posited in Mesha,
Vrishabha or Mithuna, is cojoined with or aspected by
benefics (Mercury, Jupiter and Venus), summer corn will
fetch good price, will be free from pests and be entirely
useful.
Note the other reading उभयोपयोगयं -fit for this as well as the
other world.
कार्मुकमृगघटसंस्थः शारदसस्यस्य तद्वदेव रविः ।
सङ्ग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् ॥१४॥
Sloka 14.—Similarly, the Sun posited in any one of
the signs Dhanus, Makara and Kumbha and aspected by
or conjoined with the benefics, makes the autumnal crops
308 बृहत्संहितायाम् [Adh. XLI. Sl. 1-3.
flourish and fetch fair price, etc. But at the time of har-
vest, if the Sun be aspected by or conjoined with the two
malefics, effects, quite contrary to the above should be
understood to happen (i. e. the corn will be very costly,
useless and infested with pest. But for sale, the period
will be all right.)
Thus ends the 40th Adhyaya on 'Growth of Crops.'
द्रव्यनिश्चयाध्यायः ॥४१॥ Classification of Substances.
ये येषां द्रव्याणामधिपतयो राशयः समुद्दिष्टाः ।
मुनिभिः शुभाशुभार्थं तानागमतः प्रवक्ष्यामि ॥१॥
Sloka 1.—I shall now expound, on the authority of
the Sastras, the Rasis which have been stated by ancient
sages for a knowledge of good and bad effects as presid-
ing over particular substances or objects.
वस्त्राविककुतुपानां मसूरगोधूमरालक्यवानाम् ।
स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥२॥
Sloka 2.—Sign Mesha presides over cloths, sheep's
wool, clothes made of goats' hair, lentils, wheat, resin,
barley, herbs growing on land and gold.
तथा च काश्यपः
मेषे सुवर्णस्थलजा गोधूमाजाविकास्तथा ।
ग्रहवर्णर्क्षसंयोगे शोभने सफलं भवेत् ॥
गवि वस्त्रकुसुमगोधूमशालयवमहिषसुरभितनयाः स्युः ।
मिथुनेऽपि धान्यशारदवल्लीशालूककर्पासाः ॥३॥
Sloka 3.—Sign Vrishabha presides over cloths,
flowers, wheat, rice, barley, buffaloes and bullocks;
Mithuna over corn, autumnal creepers such as vines, bulbs
of lilies and cotton.
एकचत्वारिंशोऽध्यायः
तथा च काश्यपः
वृषे महिषगोवस्त्रशालयः पुष्पसम्भवाः ।
मिथुने धान्यशालूकवह्वयः कार्पासशारदम् ॥
कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि ।
सिंहे तुषधान्यरसः सिंहादीनां त्वचः सगुडाः ॥४॥
तथा च काश्यपः
कर्कटे फलदूर्वाश्च कोद्रवः कदला तथा ।
सिंहे धान्यं सर्वरसाः सिंहादीनां त्वचो गुडाः ॥
षष्ठेऽतसीकलायाः कुलत्थगोधूममुद्गनिष्पावाः ।
सप्तमराशौ माषा यवगोधूमाः ससर्षपाश्चैव ॥५॥
तथा च काश्यपः
कन्यायां मुद्गनीवारकुलत्थाः सकला यवाः ।
तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा ॥
अष्टमराशाविक्षुः सैक्यं लोहान्यजाविकं चापि ।
नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ॥६॥
तथा च काश्यपः
अलिनीक्षुरसं सैक्यमाजं लोहं सकांस्यकम् ।
धान्यं धनुषि वस्त्राणि लवणं तुरगास्तथा ॥
310 बृहत्संहितायाम् [Adh. XLI. Sl. 7-10.
मकरे तरुगुल्मार्धं सैक्येक्षुसुवर्णकृष्णलोहानि ।
कुम्भे सलिलजफलकुसुमरत्नचित्राणि रूपाणि ॥७॥
Sloka 7.—Makara presides over trees, shrubs, what-
ever grows through being watered, sugar-cane, gold and
black metal, i. e., iron ; Kumbha, over water-products,
fruits, flowers, gems and brilliant things.
तथा च काश्यपः
मकरे सस्यसीसं च सुवर्णगुडधातुजम् ।
कुंभे कुसुमचित्राणि हंसाश्च जलजास्तथा ॥
मीने कपालसम्भववरत्नान्यम्बूद्भवानि वज्राणि ।
स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥८॥
Sloka 8.—Meena presides over such jewels as come
from testaceous animals, e. g. from the pearl oyster,
water-products, diamonds, various oils and fish-products.
तथा च काश्यपः
पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः ॥
राशेश्चतुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः ।
द्व्येकादशदशपञ्चाष्टमेषु शशिजश्च वृद्धिकरः ॥९॥
षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु ।
उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकराः ॥१०॥
Slokas 9-10.—Jupiter posited in the 4th, the 10th,
the 2nd, the 11th, the 7th, the 9th or the 5th house from
any Rasi causes the increase of the objects assigned there-
to. So does Mercury, when posited in the 2nd, the 11th, the
10th, the 5th or the 8th house therefrom. Venus posited
in the 6th or the 7th house from a Rasi destroys its
objects while in the other houses, he promotes their growth,
Malefics posited in the 3rd, the 6th, the 10th and the
11th houses from a Rasi prove beneficial, while in the
rest, they are harmful.
Adh. XLI. Sl. 11-13.] एकचत्वारिंशोऽध्यायः 311
तथा च काश्यपः
चतुःसप्तद्विपञ्चस्थो नवदिङ्मुद्रगो गुरुः ।
यस्य राशेस्तदुक्तानां द्रव्याणां वृद्धिदः स्मृतः ॥
शुक्रः षट्सप्तमस्थो वा हानिकृद्वृद्धिदोऽन्यगः ।
त्र्येकादशदशार्थाष्टसंस्थितः शशिजः शुभः ॥
पापास्तूपचयस्थाश्च वृद्धिं कुर्वन्ति नान्यथा ।
राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः ।
तत्प्रोक्तद्रव्याणां महर्घता दुर्लभत्वं च ॥११॥
Sloka 11.—If malefics in strength occupy the
अपचय houses (1st, 2nd, 4th, 5th, 7th, 8th, 9th and 12th)
with respect to a Rasi, the articles assigned to that Rasi
will become very costly and scarce.
तथा च काश्यपः
राशेरनिष्टस्थानेषु पापाश्च सबलाः स्थिताः ।
तद्द्रव्याणां नाशकरा दुर्लभास्ते भवन्ति हि ॥
इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम् ।
तद्द्रव्याणां वृद्धिः सामर्घ्यं वल्लभत्वं च ॥१२॥
Sloka 12.—If there be strong benefics in the auspici-
ous houses from a Rasi, the articles thereof will thrive,
fetch good price and have great demand.
तथा च काश्यपः
इष्टस्थाने स्थिताः सौम्या बलिनो येषु राशिषु ।
भवन्ति तद्गवानां च द्रव्याणां शुभदाः स्मृताः ॥
गोचरपीडायामपि राशिर्बलिभिः शुभग्रहैर्दृष्टः ।
पीडां न करोति तथा क्रूरैरेवं विपर्यासः ॥१३॥
Sloka 13.—If a Rasi be aspected by strong benefics,
there will be no harm done to its articles, even though the
benefics are posited in unfavourable houses (i. e., other
312 बृहत्संहितायाम् [Adh. XLII. Sl. 1-3.
than those mentioned in Slokas 9 and 10). The aspect
of malefics produces contrary results.
Thus ends the 41st Adhyaya on 'Classification of substances.'
अर्घकाण्डाध्यायः ॥४२॥ Fluctuation of Prices.
अतिवृष्ट्युल्कादण्डान् परिवेषग्रहणपरिधिपूर्वांश्च।
दृष्ट्वाऽमावास्यायामुत्पातान् पौर्णमास्यां च ॥१॥
ब्रूयादर्घविशेषान् प्रतिमासं राशिषु क्रमात्सूर्ये।
अन्यतिथावुत्पाता ये ते डमरार्चये राज्ञाम् ॥२॥
Slokas 1-2.—By observing excessive rain, meteor,
rod, halo, eclipse, mock-Sun and such other portents on
the New-Moon and Full-Moon days and also at the Sun's
entrance into a new sign, every month, one should fore-
tell a change in the prices of articles. These phenomena
on other days indicate kings' sufferings through wars.
तथा च काश्यपः
उल्कातिवृष्टिर्ग्रहणे सूर्येन्द्वोः परिवेषणम्।
प्रतिसूर्यादयो येऽन्ये पक्षमासान्तसङ्क्षये ॥
तिथौ निरीक्ष्य चोत्पातान् ब्रूयाल्लोके शुभाशुभम्।
सुभिक्षदुर्भिक्षकृतान् विशेषोऽत्र विचारतः ॥
प्रतिमासं विधानज्ञो नान्यास्मिन् दिवसे वदेत्।
अन्यत्र यो भवन्त्येते ते सर्वे नृपदोषदाः ॥
मेषोपगते सूर्ये ग्रीष्मजधान्यस्य सङ्ग्रहं कृत्वा ।
वनमूलफलस्य वृषे चतुर्थमासे तयोर्लाभः ॥३॥
Sloka 3.—At the time of the Sun's entrance into
Mesha and Vrishabha (observing the above portents), one
Adh. XLII. Sl. 4-8.] द्विचत्वारिंशोऽध्यायः 313
should collect (buy) Summer corn, and forest roots and
fruits respectively and by selling them in the fourth
month, he would gain much profit.
मिथुनस्थे सर्वरसान् धान्यानि च सङ्ग्रहं समुपनीय ।
षष्ठे मासे विपुलं विक्रेता प्राप्नुयाल्लाभम् ॥४॥
Sloka 4.—Should one collect all kinds of juice (liquids)
and corn when the Sun is in Mithuna (with the above
phenomena) and sell them in the sixth month, he would
make large profits.
कर्किण्यर्के मधुगन्धतैलघृतफाणितानि विनिधाय ।
द्विगुणा द्वितीयमासे लब्धिर्हीनाधिके छेदः ॥५॥
Sloka 5.—Similarly should one store up honey, per-
fumes, oils, ghee and sugarcane syrup, when the Sun is in
Karkataka and sell them in the second month; he would
make cent per cent profit; he would sustain loss if the
selling time exceeds or falls short of that.
सिंहे सुवर्णमणिचर्मवर्मशस्त्राणि मौक्तिकं रजतम् ।
पञ्चममासे लब्धिर्विक्रेतुरतोऽन्यथा छेदः ॥६॥
Sloka 6.—If one stores up gold, gems, skins, armours,
weapons, pearls and silver when the Sun is in Simha, and
sell them in the 5th month, he will get profit and sustain
loss otherwise.
कन्यागते दिनकरे चामरखरकरभवाजिनां क्रेता ।
षष्ठे मासे द्विगुणं लाभमवाप्नोति विक्रीणन् ॥७॥
Sloka 7.—If one collects chowries, donkeys, camels
and horses when the Sun is in Kanya and sells them in
the sixth month, he will get an equal amount as profit.
तौलिनि तान्तवभाण्डं मणिकम्बलकाचपीतकुसुमानि ।
आदद्याद्धान्यानि च वर्षाद्धार्द्विगुणिता वृद्धिः ॥८॥
ब्र. सं- 40
314 बृहत्संहितायाम् [Adh. XLII. Sl. 9-12.
Sloka 8.—If one buys and keeps cotton cloths and
the like, jewels, blankets, glass, yellow flowers and corn,
when the Sun is in Tula and sells them in six months, he'
will make 100 per cent profit.
वृश्चिकसंस्थे सवितरि फलकन्दकमूलविविधरत्नानि ।
वर्षद्वयमुषितानि द्विगुणं लाभं प्रयच्छन्ति ॥९॥
Sloka 9.—If fruits, bulbs, roots and varieties of
gems are kept for two years, when the Sun is in Vrischika
and then sold, they will fetch double their price.
चापगते गृह्णीयात्कुङ्कुमशङ्खप्रवालकाचानि ।
मुक्ताफलानि च ततो वर्षादर्द्धाद्विगुणतां यान्ति ॥१०॥
Sloka 10.—When the Sun is in Dhanus, if one
hoards saffron, conch shells, corals, glass and pearls, and
then sells them in six months, one will get double the
amount invested.
मृगघटसंस्थे सवितरि गृह्णीयाल्लोहभाण्डधान्यानि ।
स्थित्वा मासं दद्याल्लाभार्थी द्विगुणमाप्नोति ॥११॥
Sloka 11.—When the Sun is in Makara or Kumbha,
one wishing for profit will do well to store up metallic
vessels and grains and to sell them after a month. He
will then get double the amount invested.
सवितरि झषमुपयाते मूलफलं कन्दभाण्डरत्नानि ।
संस्थाप्य वत्सराद्धे लाभकमिष्टं समाप्नोति ॥१२॥
Sloka 12.—If one collects roots, fruits, bulbs, vessels
and gems when the Sun has entered Meena and disposes
of them after six months, he will get as much profit as
he desires at the beginning.
Adh. XLII. Sl. 13-14.] द्विचत्वारिंशोऽध्यायः 315
राशौ राशौ यस्मिन् शिशिरमयूखः सहस्रकिरणो वा ।
युक्तोऽधिमित्रदृष्टस्तत्रायं लाभको दिष्टः ॥१३॥
Sloka 13.—The determination of profits mentioned
above depends upon the factor, viz., the Sun or the Moon
in the different signs, being conjoined with very friendly
planets and aspected by planets who are very friendly.
तथा च काश्यपः
राशौ राशौ स्थितः सूर्यः शशी वा मित्रसंयुतः ।
अधिमित्रेण सन्दृष्टो यथा लाभप्रदः स्मृतः ॥
सवितृसहितः सम्पूर्णो वा शुभैर्युतवीक्षितः
शिशिरकिरणः सद्योऽर्घस्य प्रवृद्धिकरः स्मृतः ।
अशुभसहितः सन्दृष्टो वा हिनस्त्यथवा रविः
प्रतिगृहगतान् भावान् बुद्ध्वा वदेत्सदसत्फलम् ॥१४॥
Sloka 14.—The Moon in conjunction with the Sun
(New Moon) or in full disc and associated with and aspect-
ed by benefics promotes invariably the price of articles
belonging to that particular Rasi occupied by her. Simi-
larly, the Sun, conjoined with and aspected by malefics,
destroys the price of the articles of that Rasi. Thus,
should one make predictions—good or bad—regarding the
price of materials, having duly understood the articles
belonging to each of the signs.
तथा च काश्यपः
अत्रार्कशशिनौ सौम्यैः संयुक्तौ वा निरीक्षितौ ।
शुभग्रहस्थानगतौ सद्योऽर्घस्य विवृद्धिकौ ॥
विपरीतस्थितावेतौ पापयुक्तौ निरीक्षितौ ।
अर्घहानिकरौ प्रोक्तौ मिश्रितौ मध्यमौ स्मृतौ ॥
Thus ends the 42nd Adhyaya on 'Fluctuation of Prices.'
316 बृहत्संहितायाम् [Adh. XLIII. Sl. 1-5.
इन्द्रध्वजसम्पद् ॥४३॥ The Glory of Indra's Banner.
ब्रह्माणमूचुरमरा भगवन् शक्ताः स्म नासुरान् समरे ।
प्रतियोधयितुमतस्त्वां शरण्यशरणं समुपयाताः ॥१॥
Sloka 1.—The Gods submitted to the Creator :—
“Oh Lord, we are unable to withstand the Demons in
battle. We, therefore, have come to you, the protector
of the helpless.”
देवानुवाच भगवान् क्षीरोदे केशवः स वः केतुम् ।
यं दास्यति तं दृष्ट्वा नाजौ स्थास्यन्ति वो दैत्याः ॥२॥
Sloka 2.—The Lord spoke to the Gods thus :—“ Lord
Narayana, reposing on the milky ocean, will grant you a
banner, at the sight of which the Demons will not stand
before you on the battlefield.”
लब्ध्ववराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः सेन्द्राः ।
श्रीवत्साङ्कं कौस्तुभमणिकिरणोद्भासितोरस्कम् ॥३॥
श्रीपतिमचिन्त्यमसमं समं ततः सर्वदेहिनां सूक्ष्मम् ।
परमात्मानमनादिं विष्णुमविज्ञातपर्यन्तम् ॥४॥
तैः संस्तुतः स देवस्तुतोष नारायणो ददौ चैषाम् ।
ध्वजमसुरसुरवधूमुखकमलवनतुषारतीक्ष्णांशुम् ॥५॥
Slokas 3-5.—The immortals with Indra at theirh ead,
having received the boon from the Creator, repaired to
the milky ocean and eulogized the lord, who has the
mark of Srivatsa on his breast, which is brightened by the
rays of the Kaustubha gem, who is the consort of Goddess
Lakshmi, who is incomprehensible, peerless, impartial, un-
knowable to all beings, the greatest Being (Supreme Soul),
without a beginning, all pervasive and whose end is
Adh. XLIII. Sl. 6-8.] त्रिचत्वारिंशोऽध्यायः 317
unknown. The Lord, being pleased with their invocations,
vouchsafed to them a banner which would prove as the
Moon and the Sun respectively to the lotus-like faces of
the demonesses and the Goddesses.
तं विष्णुतेजोद्भवमष्टचक्रे रथे स्थितं भास्वति रत्नचित्रे ।
देदीप्यमानं शरदीव सूर्यं ध्वजं समासाद्य मुमोद शक्रः ॥६॥
Sloka 6.—Indra was highly pleased on receiving the
Banner, which was born of Vishnu's power, mounted on
a dazzling and gem-bedecked carriage of 8 wheels, and
shining verily like the Sun in autumn.
स किङ्किणीजालपरिष्कृतेन स्रक्छत्रघण्टापिटकान्वितेन ।
समुच्छ्रितेनामरराङ्ङ्ध्वजेन निन्ये विनाशं समरेऽरिसैन्यम् ॥७॥
Sloka 7.—The Lord of Gods, viz., Indra, put the
host of enemies to death in battle with the aid of the
Banner, which was erected aloft, bedecked with groups of
small bells, and which bore wreaths, umbrellas, bells and
ornaments.
तथा च गर्गः ।
असुरास्तं ध्वजं दृष्ट्वा ध्वजतेजःसमाहताः ।
विसञ्ज्ञास्समरे भग्नाः पराभूता प्रदुद्रुवुः ॥
तान्वज्रेण सहस्राक्षो मासे भाद्रपदेऽसुरान् ।
घातयित्वा सज्येष्ठायामेकरात्रेण वाजिना ॥
स जित्वा श्रवणे स्वर्गं प्रापौ सद्दिजः पथि । इति
उपरिचरस्यामरपो वसोर्ददौ चेदिपस्य वेणुमयीम् ।
यष्टिं तां स नरेन्द्रो विधिवत् सम्पूजयामास ॥८॥
Sloka 8.—Once Indra gave a bamboo flagstaff to
the King of Chedi, known as Uparichara Vasu—who
could travel in the sky. The king worshipped that, in
due form.
See Mahabharata, Adiparva-64-Sl. 16-17, (Pandit Krishna-
chrya's Edition).
318 बृहत्संहितायाम् [Adh. XLIII. Sl. 9-12.
प्रीतो महेन मघवा प्राहैवं ये नृपाः करिष्यन्ति ।
वसुवद्वसुमन्तस्ते भुवि सिद्धाज्ञा भविष्यन्ति ॥९॥
मुदिताः प्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः ।
ध्वज एव चाभिधास्यति जगति निमित्तैः फलं सदसत् ॥१०॥
Slokas 9-10.—Being pleased with the worship, Indra
spoke thus: "Those kings who act like Vasu will become
prosperous with all kinds of wealth and will have their
commands obeyed implicitly on earth. Their subjects also
will be happy, free from danger and disease, and have
plenty of food. The Banner will by itself show by signs—
good and bad—effects in the world."
पूजा तस्य नरेन्द्रैर्बलवृद्धिजयार्थिभिर्यथा पूर्वम् ।
शक्राज्ञया प्रयुक्ता तामागमतः प्रवक्ष्यामि ॥११॥
Sloka 11.—I am going to expound on the authority
of the Sastras the method according to which the wor-
ship of the Banner was performed in days of yore by
kings, who wished for power, prosperity and victory at
the behest of Indra.
तस्य विधानं शुभकरणदिवसनक्षत्रमङ्गलमुहूर्त्तैः ।
प्रास्थानिकैर्वनमियाद्दैवज्ञः सूत्रधारश्च ॥१२॥
Sloka 12.—The following is the method of making
Indra’s Banner : An astrologer and a carpenter should go
to the forest at an auspicious Karana, day, asterism and
at a holy Muhurta (48 minutes), when there are good
omens for the journey.
For the several Karanas, vide Adhyaya C—Sl. 1—2, infra.
मुहूर्त्ताः ।
शिवभुजगमित्रपितृवसुजलविश्वेविरञ्चिपङ्कजप्रभवाः ।
इन्द्राग्नीन्द्रनिशाचरवरुणैर्यमयोमपैश्चाह्नि ॥
Adh. XLIII. Sl. 13-16.] त्रिचत्वारिंशोऽध्यायः 319.
रुद्राऽहिर्बुध्न्याः पूषादस्रान्तकाग्निधातारः ।
चन्द्रादितिगुरुहरिरवित्व्राष्ट्रान्यानिलाख्यका रात्रौ ॥
अहूः पञ्चदशांशे गत्रिश्रवं मुहूर्त इति ।
सञ्ज्ञा स च विज्ञेयच्छायायन्त्राम्बुभियुक्त्या ॥
उद्यानेदेवतालयपितृवनवल्मीकमार्गचितिजाताः ।
कुब्जोर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च ॥१३॥
बहुविहगालयकोटरपवनानल्पपीडिताश्च ये तरवः ।
ये च स्युः स्त्रीसञ्ज्ञा न ते शुभाः शक्रकेत्वर्थे ॥१४॥
Slokas 13-14.—The following trees are not com-
mendable for making Indra's Banner : Those that grow
in pleasure gardens, temples, cemeteries, ant-hills, roads
and sacrificial places ; those that are very short, withered
at the top, thorny, entwined by creepers, and parasitical
plants ; those that contain numerous birds' nests, hollows,
those that are spoiled by wind and fire, and those that
bear feminine names.
तथा च गर्गः ।
प्रोष्ठपादे प्रतिपदि ध्वजार्थं पूर्वतो वनम् ।
गत्वा वृक्षं परीक्षेत वयःसारगुणान्वितम् ॥
श्रेष्ठोऽर्जुनोऽजकर्णः प्रियकधवोदुम्बराश्च पञ्चैते ।
एतेषामेकतमं प्रशस्तमथवापरं वृक्षम् ॥१५॥
Sloka 15.—The best trees are Arjuna, Ajakarna,
Priyaka, Dhava and Udumbara (Indian fig). Any one
of these trees or some other of approved qualities can be
made use of.
Priyaka—Known in Tamil as கடம்பமரம்.
Dhava—Acacia Lencophloca, known in Tamil as வெள்வேலமரம்
Udumbara—The tree Ficus Glomerata.
गौरासितक्षितिभत्रं सम्पूज्य यथाविधि द्विजः पूर्वम् ।
विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम् ॥१६॥
320 बृहत्संहितायाम् [Adh. XLIII. Sl. 17-21.
Sloka 16.—A Brahmin should approach in the first
part of the night the tree that has grown on white
(red?) or black soil on a lonely spot, worship it accord-
ing to rules and recite the following hymn, touching the
tree.
यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः ।
उपहारं गृहीत्वेमं क्रियतां वासपर्ययः ॥१७॥
पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम ।
ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम् ॥१८॥
Slokas 17-18.—"Hail to all beings living in this tree!
Salutation to you. May you change your abode after re-
ceiving this gift. O great tree, hail to you! The king
chooses you for the banner of the king of the Gods.
Kindly accept this worship."
छिन्द्यात्प्रभातसमये वृक्षमुदक्प्राङ्मुखोऽपि वा भूत्वा ।
परशोर्जर्रजरशब्दो नेष्टः स्निग्धो घनश्च हितः ॥१९॥
Sloka 19.—At dawn, facing the East or North, he
(the carpenter) should cut the tree. A rough and creak-
ing sound of the axe is not auspicious, but a soft and full
one is favourable.
नृपजयदमविध्वस्तं पतनमनाकुञ्चितं च पूर्वोदक् ।
अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत्पतितम् ॥२०॥
Sloka 20.—If the tree falls down, unspoilt, unbroken
and without being entangled in other trees, it will yield
victory to the king; one that falls down under contrary
circumstances should be discarded.
छित्वाग्रे चतुरङ्गुलमष्टौ मूले जले क्षिपेद्विटपम् ।
उद्धृत्य पुरद्वारं शकटेन नयेन्मनुष्यैर्वा ॥२१॥
Adh. XLIII. Sl. 22-24.] त्रिचत्वारिंशोऽध्यायः 321
Sloka 21:—The tree must be chopped at the top to
the extent of four inches, and at the bottom, of eight
inches, and then the trunk must be put into water. After
taking it out, it must be taken to the town-gate through
cart or by men.
अरभङ्गे बलभेदो नेम्या नाशो बलस्य विज्ञेयः ।
अर्थक्षयोऽक्षभङ्गे तथाणिभङ्गे च वर्द्धकिनः ॥२२॥
Sloka 22.—If the spoke of the cart-wheel give way
when the tree-trunk is being carried, the king's army will
be shattered; if the rim breaks, the army will be des-
troyed; if it is the axle, the king will lose his wealth; and
if the axle-pins give way, the carpenter will come to
grief.
भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैर्वृतो राजा ।
दैवज्ञसचिवकञ्चुकिविप्रप्रमुखैः सुवेषधरैः ॥२३॥
अहताम्बरसंवृतां यष्टिं पौरन्दरीं पुरं पौरैः ।
स्रग्गन्धधूपयुक्तां प्रवेशयेच्छङ्खतूर्यरवैः ॥२४॥
Slokas 23-24.—On the eighth day of the bright half
of the month of Bhadrapada, the King in the company of
the citizens, the royal astrologer, ministers, chamberlains
and prominent Brahmins, all dressed in auspicious gar-
ments should cause the Standard of Indra, covered with
a new cloth and honoured with wreaths, perfumes and
incense, to be ushered into the town by the citizens to
the accompaniment of the sounds of conchs and musical
instruments.
तथा च गर्गः ।
प्रौष्ठपदे सिताष्टम्यां ज्येष्ठायोगे स्वलङ्कृताम् ।
यष्टिं पौरन्दरीं राजा नगरं संप्रवेशयेत् ॥
बृ. सं. 41
रुचिरपताकातोरणवनमालामलङ्कृतं प्रहृष्टजनम् ।
संमार्जितार्चितपथं सुवेषगणिकाजनाकीर्णम् ॥२५॥
अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम् ।
नटनर्तकगेयज्ञैराकीर्णचतुष्पथं नगरम् ॥२६॥
तत्र पताकाः श्वेता भवन्ति विजयाय रोगदाः पीताः ।
जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय ॥२७॥
यष्टिं प्रवेशयन्तीं निपातयन्तो भयाय नागाद्याः ।
बालानां तलशब्दे सङ्ग्रामः सत्त्वयुद्धे वा ॥२८॥
सन्तक्ष्य पुनस्तक्षा विधिवद्यष्टिं प्ररोपयेद्यन्त्रे ।
जागरमेकादश्यां नरेश्वरः कारयेच्चास्याम् ॥२९॥
सितवस्त्रोष्णीषधरः पुरोहितः शाक्रवैष्णवैर्मन्त्रैः ।
जुहुयादग्निं सांवत्सरो निमित्तानि गृह्णीयात् ॥३०॥