बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)
The Brihaddeshi of Sri Matanga Muni
मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा
पृष्ठ 66, कुल 175 में से
संदर्भ में पढ़ें५६ बृहद्देश्यां
जन्महेतुत्वाज्जातय इति । यद्वा जातय इति जातयः । यथा
नराणां ब्राह्मणत्वादयो जातयः । शुद्धाश्च विकृताश्चैवमत्रापि
जातिलक्षणम् ।
इदानीं विशेषलक्षणमाह—
ग्रहांशौ तारमन्द्रौ च षाडवौडविते तथा ॥ १९५ ॥
अल्पत्वं च बहुत्वं च न्यासोऽपन्यास एव च ।
, ज्ञेयते तथथा जाति देशजातीयलक्षणा (?) ॥ १९६ ॥
लक्षणं दशकस्यास्य संक्षेपेणाभिधीयते ।
तत्रादौ जात्यादिप्रयोगो गृह्यते येनासौ ग्रहः । अंशवर्तिषष्टि-
भेदमिन्नो बोद्धव्यः । (तद्दे ? नन्वे)वं ग्रहांशयोः को भेदः ।
उच्यते । अंशो वाद्येव परं, ग्रहस्तु वाद्यादिभेदभिन्नश्चतुर्विधः ।
यद्वा प्रधानाप्रधानकृतो भेदः । ग्रहो ह्यप्रधानभूतः । ननु कथ-
मंशस्यैव प्राधान्यमुच्यते । रागजनकत्वाद् व्यापकत्वाच्चांश-
स्यैव प्राधान्यम् । यद्यपि सर्वजातीनां ग्रहोऽशश्च प्रधानीभूत
इत्युत्सर्गसिद्धम् । तथापि संवाद्यनुवादिविधिना चोद्यते ।
तथापि प्रथमचतुर्थषष्ठगीतेषु मन्द्रप्रकृतो विशेषः नियमः प्र-
थमे संवादित्वात् कथं भेदप्रयोगः । षड्जोदीच्यवामध्यमोदी-
च्यवारक्तगान्धारीगान्धारीपञ्चमीनां तु ग्रहा विवादि द्वेन(?)
ग्रहस्तु आर्षभी धैवती निषादवत्यन्ध्री षड्जकैशिकी षड्ज-
मध्यमा चेति । एवं नन्दयन्त्यामिति ग्रहविधि(:) । तथाचाह
१. 'प्र', २. 'ड्डुम्बिते' ख. पाठः.