सामग्री पर जाएँ
सर्वकोश
बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

The Brihaddeshi of Sri Matanga Muni

मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा

DevanagariSanskritpublished175 पृष्ठ

पृष्ठ 62, कुल 175 में से

संदर्भ में पढ़ें
पृष्ठ 62

५४ बृहद्देश्या
न्यासबलमाह — तत्र न्यासविधौ यज्जातयः शुद्धाः तासु
नामकारि(?) यो न्यासः नियमेन मन्द्रो भवति । विकृतासु च
नामकविकारी(?) वा मन्द्रो भवतीत्यनियमः । तत्र शुद्धानां
जातीनां शुद्धत्वं विकृतत्वं च रूपद्वयमस्ति । एकादशानां
जातीनां विकृतोद्भवत्वाद् विकृतत्वमेव रूपं भवति । ननु शु-
द्धत्वमिति कुत एतत् । ता हि परस्परसंसर्गाज्जाय(ते¹? न्ते) ।
तथाचाह भरतः —
“शुद्धा विकृताश्चैव हि समवायाज्जातयस्तु जायन्ते ।
पुनरेवाशुद्धकृता भवन्त्यथैकादशपरास्तु ॥
तासां यास्तु निवृत्ताः स्वरेष्वथांशेषु जातिषु च ।
जातीस्ता वक्ष्यामः सङ्क्षेपेण क्रमेण चैवात्र ॥
षड्जाया मध्यमायाश्च संसर्गात् षड्जमध्यमा ।
षड्जायाश्चैव गान्धार्या जायते षड्जकैशिकी ॥
तयोरेव सधैवतयोः षड्जोदीच्यवती भवेत् ।
आसां समध्यमानां तु गान्धारोदीच्यवा भवेत् ॥
गान्धार्या मध्यमायाश्च पञ्च(मी²? म्या)श्चैव सङ्करात् ।
सधैवतानामासां तु मध्यमोदीच्यवा भवेत् ॥
आसां स्याद् रक्तगान्धारी नैषादी चेच्चतुर्थिका ।
आर्षभ्यास्तु भवेद्यन्त्री गान्धार्याश्चैव सङ्करात् ॥
अनयोस्तु सपञ्चम्योर्नन्दयन्ती प्रजायते ।
सन्निपादा स्वगान्धार्याः कुर्युः कार्मारवीमिमाम् ॥
१ 'तृ' क पाठ २ 'मी' ख पाठ