ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 25, कुल 737 में से
संदर्भ में पढ़ेंइत्युक्त्याऽन्यान् सर्वान् सिद्धान्तान्निन्दन्ति । ब्राह्मस्फुटसिद्धान्ते बहुषु
स्थलेषु स्थौल्यं त्वस्त्येव तथापि बहवो विषया अत्र निवेशिताः सन्ति, तस्मा-
त्सर्वश्रेष्ठो ब्राह्मस्फुटसिद्धान्तोऽस्तीतिकथने न काचिद्विप्रतिपत्तिः प्रतिभाति ।
अत्रैकोऽध्यायो ‘छन्दश्चित्युत्तराध्यायः’ अस्ति, यत्र लिखितानां श्लोकानां व्याख्यो-
पपत्तिश्चाद्यावधि केनापि न कृता तेषु तादृशं काठिन्यमस्ति यदर्थो न मनसि
समागच्छति, उपपत्तेश्च कथैव का ?, प्रश्नाध्यायो यादृशोऽत्र ग्रन्थेऽस्ति न
तादृशोऽन्येषु सिद्धान्तग्रन्थेषु । अत्र ग्रन्थे मध्यगत्यादीनां पञ्चाध्यायानां प्रश्नाः
सोत्तराः पृथक् पृथक् लिखिताः सन्ति । येषामभ्यासेन पाठका अतीव सिद्धान्त-
ग्रन्थे निपुणा भवितुमर्हन्ति । सिद्धान्तशिरोमणेर्भू मिकायां ‘जीवासाधनं विनैव
यद्भुजज्यानयनं कृतवान् श्रीपतिस्तत्त्वपूर्वमेव स्यात् । यथा तत्प्रकारो विदां
विनोदाय प्रदर्श्यते —
दोः कोटिभागरहिताभिहताः खनागचन्द्रास्तदीयचरणेन शरार्कदिग्भिः ।
ते व्यासखण्डगुणिता विहृताः फलं तु ज्याभिर्विनापि भवतो भुजकोटिजीवे ॥
इति केनापि लिखितमस्ति तन्नैव युक्तियुक्तं यतो ज्याभिर्विना भुजकोटि-
ज्ययोरानयनं ज्यातश्चापानयनं च सर्वप्रथमं ब्रह्मगुप्तेनैव कृतम् यथा तदुक्त-
प्रकारः —
भुजकोट्यं शोनगुणा भार्धाशास्तच्चतुर्थभागेनैः ।
पञ्चद्वीन्दुखचन्द्रैर्विभाजिता व्यासद्लगुणिता ॥
तज्ज्ये परमफलज्या सङ्गुणिता तत्फले विना ज्याभिः ।
इष्टोच्चनीचवृत्तव्यासार्धं परमफलजीवा ॥१
इष्टज्यातश्चापानयनञ्च
इष्टज्यासङ्गुणिताः पञ्चकयमलैकशून्यचन्द्रमसः ।
इष्टज्यापादयुतव्यासार्ध विभाजिता लब्धम् ॥
नवतिकृतेः प्रोह्यपदं नवतेः संशोध्य शेषभागकलाः ।
एवं धनुरिष्टाया भवति ज्याया विना ज्याभिः ॥
१. चिरादेव प्रकारोऽयं श्रीपत्युक्तोऽस्तीति ज्योतिर्विदां मध्ये प्रसिद्धोऽस्ति । तथैव
ज्यातश्चापानयनमपि । एतदवलम्ब्यैव ग्रहलाघवे करणग्रन्थे गणेशदैवज्ञेन बहवः
प्रकारा विलिखिताः ।