ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 26, कुल 737 में से
संदर्भ में पढ़ेंएतदनुरूप एव बटेश्वरसिद्धान्ते बटेश्वरेण स्वीयप्रकारोऽभिहितः ।
सिद्धान्तशेखरे सर्वत्र श्रीपतेः स्वकीयः प्रकारोऽल्पीयानेवास्ति, ब्रह्मगुप्तोक्त-
प्रकारा एव छन्दोऽन्तरेण लिखिताः सन्ति¹ वराहोक्त पञ्चसिद्धान्तिकायां त्रयो-
दशभिरार्याभिरुक्तो वासिष्ठसिद्धान्तः पैतामहसिद्धान्तश्च वराहोक्त्यैव दूरभ्रष्टा-
विति तत्रापि ब्रह्मसिद्धान्तापेक्षया यत्किञ्चित् वासिष्ठसिद्धान्तः सूक्ष्मताभिधायि ।
तन्त्रपरीक्षाध्याये—
लाटात् सूर्यशशाङ्कौ मध्याविन्दूच्च चन्द्रपातौ च ।
कुजबुधशीघ्रबृहस्पति सितशीघ्रशनैश्चरान् मध्यान् ॥
युगजातवर्ष भगणान् वासिष्ठाद्विजयनन्दिकृत पादात् ।
मन्दोच्चपरिधिपातस्फुटीकरणाद्यमार्यभटात् ॥
श्रीषेणेन गृहीत्वा रत्नोच्चयरोमकः कृतः पन्थाः ।
एतानेव गृहीत्वा वसिष्ठो विष्णुचन्द्रेण ॥
इति ब्रह्मगुप्तोक्त्या वसिष्ठसिद्धान्तरचयिता विष्णुचन्द्रनामकः कश्चि-
दासीत् । सम्भवतोऽयं विष्णुचन्द्रः प्राचीनं वसिष्ठसिद्धान्तं संस्कृतवानिति
'एतानेव गृहीत्वा वासिष्ठो विष्णुचन्द्रेण' इत्युक्त्या स्फुटं भवति । परमयं
ग्रन्थोऽधुना कुत्रापि नोपलभ्यते । एतस्यैव विष्णुचन्द्रस्य मतं यत्र तत्र श्रीषेणार्य-
भटाभ्यां सह ब्रह्मगुप्तेन खण्डितम् ।
१. यथोदाहरणार्थं किञ्चित्प्रोच्यते । सिद्धान्तशेखरस्य सूर्यग्रहणाधिकारे ।
तिथ्यन्तात् स्थितिखण्डहीन सहितात् प्राग्वत्ततो लम्बनं
कुर्यात् प्रग्रहमोक्षयोः स्थितिदलं युक्तं विधायासकृत् ।
तन्मध्यग्रहणोत्थलम्बनभुवा विश्लेषणानेहसा
मर्द्दार्धेनयुतात्तिथेरपि तथा संमीलनोन्मीलने ॥
अधिकमृणयोराद्यं मध्यात्तथाऽन्त्यमिहाल्पकं भवति
धनयोश्चाद्यं हीनं यदाऽधिकमन्तिमम् ।
नमनविवरेणैवं कुर्याद्विहीनमतोऽन्यथा स्थितिदल-
मृणस्वस्थे भेदे तदैक्ययुतं पुनः ॥
इति ब्रह्मगुप्तोक्तस्य—
प्राग्वल्लम्बनमसकृत् तिथ्यन्तात् स्थितिदलेन हीनयुतात् ।
अधिकोनं तन्मध्याह्नयोरूनाधिकं धनयोः ॥
यदधिकं स्थित्यर्थं तदाऽन्तरेणान्यथोनमृणमेकम् ।
अन्यद्धनं तदैक्येनाधिकमेवं विमर्दार्थे ॥
(शेष पृष्ठ ११ पर)