ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 24, कुल 737 में से
संदर्भ में पढ़ें( ८ )
शिरोमणेर्गणिताध्यायस्य स्पष्टाधिकारे-एतस्याऽनयन प्रकारोऽभिहितः । 'मुहुः
स्फुटातो ग्रहणो रवीन्द्रोस्तिथिस्त्विदं जिष्णुसुतो जगाद' इति भास्करोक्तेर्ज्ञायते
यदेतस्याविष्कर्त्ता ब्रह्मगुप्त एवास्ति । भास्कराचार्येण भोग्यखण्डस्पष्टीकरणं
यदभिहितं तन्मूलमपि ब्राह्मस्फुटसिद्धान्तस्य ध्यानग्रहोपदेशाध्याये ब्रह्मगुप्तोक्त-
मेव, न ह्यन्यैराचार्यैस्तत्सम्बन्धे किमपि लिखितम् । कमलाकरेण तु सिद्धान्त-
तत्त्वविवेके भास्करोक्तभोग्यखण्डस्पष्टीकरणस्य खण्डनमेव कृतम् । वस्तुतः
कमलाकरोक्तं खण्डनं न समीचीनम् । ब्राह्मस्फुटसिद्धान्ते त्रिप्रश्नाधिकारे
दिक्साधने 'पूर्वापरयोर्बिन्दू तुल्यच्छायाग्रयोर्दिगपरायः । पूर्वान्यः क्रान्तिवशात्
तन्मध्याच्छङ्कुतल मितरे' इत्यत्र क्रान्तिवशाद्दिक्साधने कथं भेद उत्पद्यते तदर्थं
चतुर्वेदाचार्येण कर्णवृत्ताग्रान्तरं यत्साधितं तदेव 'छायानिर्गमनप्रवेशसमयार्क-
क्रान्तिजीवान्तरमि' त्याद्युक्त्या श्रीपतिना, तदनु 'तत्कालापम जीवयोस्तुविवराद्रि'
त्यादिना भास्करेण च गृहीतम् । मन्दफलानयने वस्तुतो मन्दकर्णानुपातेनैव
मन्दफलं सिध्यति । यद्यप्यत्र भास्करेण स्वमतं न प्रतिपादितं तथापि चन्द्रग्रहणे
स्फुटरविचन्द्रकर्णसाधने 'मन्दश्रुतिद्वर्क्षिश्रुतिवत् प्रसाध्या' इत्यादिना ब्रह्मगुप्त-
स्यैव मतं स्वीकृतमित्यपि ब्रह्मगुप्तोक्तेर्वैलक्षण्यमस्ति । लल्लाचार्येण वलनदृक्-
र्मणोरानयनमुक्तमज्ययाकृतमिति ब्रह्मगुप्तोक्तौ 'अत्र ज्याशब्देनोत्क्रमज्या
ग्राह्येति' चतुर्वेदाचार्यव्याख्यानमेव लक्ष्यीकृत्य भास्करेण 'ब्रह्मगुप्तकृतिरत्न-
सुन्दरी साऽन्यथा तदनुगैर्विचार्यते' इत्युक्तम् ।
'युगमन्वन्तरकल्पाः कालपरिच्छेदकाः स्मृतावुक्ताः ।
यस्मान्न रोमके ते स्मृतिबाह्यो रोमकस्तस्मात् ॥'
(ब्राह्मस्फुट सिद्धान्त अध्याय १)
इति ब्रह्मगुप्तोक्त्या 'रोमक' इति नाम्ना चायं कस्यचित्पाश्चात्यज्यो-
तिर्विदो मूलमादाय रोमकसिद्धान्तो रचित इति स्फुटं भवति । प्राचीनाचार्याणां
मध्ये केवलं ब्रह्मगुप्त एव रोमकमतं खण्डयति । वराहमिहिरस्तु रोमक
सिद्धान्तमतेनाहर्गणादीनां बहूनामेव सिद्धान्तोक्तविषयाणां साधनं स्वीकरोति ।
ब्रह्मगुप्तः—
ब्रह्मोक्तं ग्रहगणितं महता कालेन यत् खिलीभूतम् ।
अभिधीयते स्फुटं तज्जिष्णुसुतब्रह्मगुप्तेन ॥
इत्युक्त्या ब्रह्मसिद्धान्तमेव संस्कृतवानिति स्फुटमेव । तदेतेषां मूलरूप
एको ब्रह्मसिद्धान्तोऽतिप्राचीन आसीदिति सिद्धयति । ब्रह्मगुप्तस्तु—
'येऽज्ञानपटलरुद्धदृशोऽन्यं ब्राह्माद्वदन्ति सिद्धान्तम् ।
तेषां युगादिभेदे ये दोषास्तान् प्रवक्ष्यामि ॥'