ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 23, कुल 737 में से
संदर्भ में पढ़ें( ७ )
तत्फलस्याप्यभावो यात्रोद्वाहादिषु पुनरिह द्युत्रयं नैव दुष्टम् ॥' अनेन कथितम्,
अर्थात्सूर्यविम्बं तुहिनकिरणापक्रमेण (चन्द्रस्य स्पष्टक्रान्त्या सह) यावत्काल-
पर्यन्तमेकमार्गे (एकस्मिन्नहोरात्रवृत्तेऽर्थाद्यावत् क्रान्त्योर्विवरं मानैक्यार्धादल्पं
भवति यथा बिम्बैकदेशजक्रान्त्योः साम्यं भवतीत्यर्थः ।) तावत् मुनिभिः फलादेश-
कृद्भिः पातसंजातफलस्य संभवः कथितः । तस्य सूर्यस्य चन्द्रस्य स्पष्टक्रान्त्या
सहैकमार्गावस्थानाभावे तत्फलस्याप्यभावो भवति । इह पुनः पातस्थितिकाले
यात्रोद्वाहादिषु मङ्गलकार्येषु दिनत्रयं दुष्टं नैव । केषुचित्फलग्रन्थेषु व्यतीपात-
वैधृत्योः सतोस्तद्दिनं तत्पूर्वदिनमपरदिनं चेति दिनत्रयं शुभकार्ये निषिद्धमिति
कैश्चिदुक्तं तत्परिहारार्थमाह—द्युत्रयं नैव दुष्टम् । सूर्यसिद्धान्तादिषु पातकाल
एव शुभकार्येषु दोषभाक् गते पातकाले च दोषो न भवतीति । प्रसङ्गादत्र
सिद्धान्तशेखरवचनोल्लेखः कृतः । यतः श्रीपतिराचार्या(ब्रह्मगुप्तात्) दर्वाचीनोऽ-
स्ति । ब्राह्मस्फुट सिद्धान्ते तन्नामोल्लेखो नास्ति ।
भारतीयानां ज्योतिर्विदां मध्ये आर्यभट एव सर्वप्रथमं दिनरात्र्योः कारण-
स्वरूपं पृथिव्या आवर्त्तनं कथयति । यथा गीतिकापादस्य प्रथमश्लोके एकस्मिन्
महायुगे ४३२०००० भूमेर्भंगणाः १५८२२३७५०० एतावन्तो भवन्तीति प्रथमं
कथित्वा दृष्टान्तद्वारेण भूभ्रमणं—
अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् ।
अचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम् ॥
अनेन दृढीकरोति । परमंत्र विचित्रमेतदवलोक्यते यदार्यभटीय टीका-
कारण परमेश्वरेणैतत्-श्लोकस्यावतरणं 'भूमेः प्राग्गमनं नक्षत्राणां गत्यभावञ्चे-
च्छन्ति केचित्तन्मिथ्याज्ञानवशादुत्पन्नां प्रत्यग्गमन प्रतीतिमङ्गीकृत्य भूमेः प्राग्ग-
तिरभिधीयते । परमार्थतस्तु स्थिरैवभूमिः' इत्युक्तम् । स्वयमप्यार्यभटः—
उदयास्तमय निमित्तं नित्यं प्रवहेण वायुना क्षिप्तः ।
लङ्कासमपश्चिमगो भपञ्जरः सग्रहो भ्रमति ॥
इत्यनेन भूभ्रमणमस्वीकरोतीति दृश्यन्ते । आर्यभटस्य मनसि निश्चयो
नासीद्यत् पृथिवी चलति-नवा चलति । ब्रह्मगुप्तेनैक मपूर्वं वस्तु 'नतकर्म' प्रति-
पादितम् । मन्दफल-शीघ्रफल-भुजान्तरादि संस्कारेण यो हि स्पष्टग्रहः समा-
गच्छति स स्वगोलीयः (ग्रहगोलीयः) स. ग्रहोऽस्माकं यत्र प्रत्यक्षोभूतो भवति स
एवास्माकं स्पष्टग्रहो भवितुमर्हति । स्वगोलीयस्पष्टग्रहे यावता संस्कारेणास्माकं
स्पष्टग्रहो भवति तस्यैव संस्कारस्य नाम 'नतकर्म' ब्रह्मगुप्ततः केऽपि प्राचीना
आचार्या एतस्य (नतकर्मणः) नामोल्लेखं न कृतवन्तः । भास्कराचार्येण सिद्धान्त-