सामग्री पर जाएँ
सर्वकोश
ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

Brahmasphuta Siddhanta of Brahmagupta with Commentary

आचार्य ब्रह्मगुप्त द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished737 पृष्ठ

पृष्ठ 22, कुल 737 में से

संदर्भ में पढ़ें
पृष्ठ 22
पृष्ठ 22 स्कैन

( ६ )
इति कमलाकरोक्त्या स्वयं भगवान् सूर्य एवास्य रचयिता । आश्चर्यम्य
विषयोऽयमस्ति यदत्रा (सूर्यसिद्धान्ते) यनांशानयनम् ।
'त्रिंशत्कृत्यो युगे भानां चक्रं प्राक् परिलम्बते ।
तद्गुणाद्भूदिनैर्भक्ताद् द्युगणाद्यदवाप्यते ॥'
'तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः ।
तत्संस्कृताद् ग्रहात् क्रान्तिच्छाया चरदलादिकम् ॥'
इत्यनेन कृतमस्ति । परं ब्राह्मस्फुटसिद्धान्तनिर्मात्रा ब्रह्मगुप्तेन तस्य
(अयनांशस्य) चर्चाऽपि न कृता । कथं ब्रह्मगुप्तेन तच्चर्चा न कृतेति न ज्ञायते ।
सूर्य सिद्धान्तस्योदयास्ताधिकारे 'अभिजिद् ब्रह्महृदयं स्वातीवैष्णव वासवाः'
इत्यादिना सदोदित नक्षत्राणि भगवता सूर्येण कथितानि सन्ति, अस्य श्लोकस्य
सुधावर्षिणी टीकायां 'देशज्ञानं विना सदोदित नक्षत्राणां ज्ञानं न भवति निरक्षे
च सौम्यध्रुवोऽप्यदृश्योऽतः केनचिद्गोलानभिज्ञेनायं श्लोकः प्रक्षिप्त, इति
यल्लिखितमस्ति तत्समीचीनं नास्ति । पाताधिकारे पातस्थितिकालस्य फलं--
आद्यन्तकालयोर्मध्यः कालो ज्ञेयोऽतिदारुणः ।
प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ॥
एकायनगतं यावदर्केन्द्वोर्मण्डलन्तरम् ।
सम्भवस्तावदेवास्य सर्वकर्मविनाशकृत् ॥
स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः ।
प्राप्यते सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा ॥
इत्यनेन पातस्थितिकालः सर्वकर्मविनाशकृदुक्तः । पातकाले स्नानदान-
जपश्राद्धव्रतहोमादिकर्मभिर्महत्कल्याणं प्राप्यते लोकैरिति । तथा च--
रवीन्दोस्तुल्यता क्रान्त्योर्विषुवत्सन्निधौ यदा ।
द्विर्भवेद्धि तदा पात: स्यादभावो विपर्ययात् ॥
इत्यनेनापूर्वविषयः कथितोऽर्थाद्विगोलसन्धिसमीपे यदा रविचन्द्रयोः
क्रान्तिसाम्यं भवेत्तदाल्पेनैव कालेन द्विवारः पातः स्यात् । यदा रव्ययनसन्धि-
समीपे क्रान्तिसाम्याभावस्तदा बहुकालपर्यन्तं क्रान्ति साम्याभावः स्यादिति ।
ब्राह्मस्फुटसिद्धान्तेऽपि पातस्थितिकालफलं सूर्यसिद्धान्तोक्तवत्कथितम् ।
सिद्धान्तशेखरे कियत्कालपर्यन्तं पातफलमिति 'भानोर्बिम्बं तुहिनकिरणापक्रमे-
णैकमार्गे यांवत्तावन्मुनिभिरुदितसंभवस्तत्फलस्य । तस्याभावे भवति नियतं