ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 21, कुल 737 में से
संदर्भ में पढ़ेंद्व्यूनं शकेन्द्रकालं पञ्चभिरुद्धृत्य शेषवर्षाणाम् ।
द्विगुणं माघसितार्द्यं कुर्याद् द्युगणं तदन्ह्युदयात् ॥२॥
सैक षष्ट्यंशे गणे तिथिर्भमार्कं नवाहतेऽक्ष्यर्कैः ।
दिग्रसभागैः सप्तभिरूनं शशिभं धनिष्ठाद्यम् ॥३॥
प्रागर्धे पर्व यदा तदोत्तराऽतोऽन्यथा तिथिः पूर्वा ।
अर्कघ्ने व्यतिपाता द्युगणे पञ्चाम्बरहुताशैः ॥४॥
द्व्यग्निनगेषूत्तरतः स्वमितमेष्य दिनमपि याम्यायनस्य ।
द्विघ्नं शशिरसभक्तं द्वादशहीनं दिवसमानम् ॥५॥
एतदनुसारेणैकस्मिन् युगे सौरवर्षाणि = ५, सौरमासाः = ५ × १२ = ६० ।
अधिमासौ = २ । चान्द्रमासाः = ६२ एते त्रिंशद्गुणितास्तिथयः = १८६०, अव-
मानि = ३०, एभी रहितास्तिथयोऽहर्गणः = १८३० इति ॥
पञ्च सिद्धान्तिकायां ‘पौलिश सिद्धान्तः’ इति नाम्ना एकोऽध्यायो वर्त्तते,
ब्राह्मस्फुट सिद्धान्तटीकायां पृथूदकेन बहून्येव पौलिशसिद्धान्तवचनानि प्रमाण-
त्वेनोद्धृतानि सन्ति । अस्य सिद्धान्तरचयितुः सम्बन्धे बहूनि मतान्तराणि सन्ति ।
वराहोक्तपौलिशसिद्धान्ते यवनपुरात् उज्जयिन्या वाराणस्याश्च देशान्तर-
मुल्लिखितमस्ति । यथा —
यवनाच्चरजा नाड्यः सप्तावन्त्यां त्रिभागसंमिश्राः ।
वाराणस्यां त्रिकृतिः साधनमन्यत्र वक्ष्यामि ॥
शाकल्यसंहितोक्त ब्रह्मसिद्धान्ते पुलिशसिद्धान्तोल्लेखो वर्त्तते । ब्राह्मस्फुट-
सिद्धान्तटीकायां पृथूदकेन ‘देशान्तर रेखा च पौलिशे पठ्यते’ इत्युक्तम् । तथा च
पुलिशाचार्यः—
उज्जयिनी रोहीतककुरुयमुनाहिमनिवासमेरूणाम् ।
देशान्तरं न कार्यं तल्लेखामध्यसंस्थदेशेषु ॥’
इत्यादि विचारेण पौलिशसिद्धान्तः सर्वमान्य आसीदिति प्रतिभाति ।
परमयं सिद्धान्तः साम्प्रतं नोपलभ्यते इति ।
सूर्य सिद्धान्त एव प्राचीनतमः सर्वप्रथमः सिद्धान्तग्रन्थ इति बहूनां विदुषां
मतम् ।
‘केचित्प्रत्यक्षसूर्याच्च भिन्नोऽयमिति यद्बलात् ।
वदन्ति मूढवादस्याप्रामाण्यात्तदसद्ब्रुवम् ॥’