बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 87, कुल 152 में से
संदर्भ में पढ़ें८८ बीजगणिते
नी ७ रू २१ पी ९ रू २१ ।
फा = ──────── नी = ────────
५ ७
अत्र नीलकोन्मितौ कुट्टकेन नीलपीतकयोर्माने कृत्वा काल-
कोन्मितौ नीलके स्वमानेनोत्थापिते कालकमानं भिन्नं लभ्यत इति
कुट्टकेनाभिन्ने कालकलोहितकयोर्माने ।
का = ह ६३ रू ४२ ।
लो = ह ५ रू ४ ।
अत्र नीलपीतकयोर्लोहितके स्वमानेनोत्थापिते जाते तन्माने
नी = ह ४५ रू ३३ ।
पी = ह ३५ रू २८ ।
यथा क्रमेण न्यासः ।
का = ह ६३ रू ४२ ।
नी = ह ४५ रू ३३ ।
पी = ह ३५ रू २८ ।
अथ यावत्तावदुन्मितिषु कालकादीन् स्वस्वमानेनोत्थाप्य स्व-
च्छेदेन विभज्य लब्धं यावत्तावन्मानम् या = ह १५ रू १०। अत्र शेषसमे
फले न हि शेषं भागहाराधिकं भवितुमर्हति । अतो हरितकं शून्येनो-
त्थाप्य जाता राशयः ४२, ३३, २८ । अग्राणि च १०, ११, १२ ।
एता एव लब्धयः ।
उदाहरणम् ।
एकाग्रो द्विहतः कः स्याद् द्विकाग्रस्त्रिसमुद्धृतः ।
त्रिकाग्रः पञ्चभिर्भक्तस्तद्वदेव हि लब्धयः ॥ ८ ॥
अत्र राशिः या १ । अयं द्विहत एकाग्र इति तत्फलं च द्विहतमे-
काग्रमिति फलप्रमाणम् फा २ रू १ । एतद्गुणं हरं स्वाग्रेण युतं
तस्य या १ समं कृत्वा लब्धं यावत्तावन्मानम् = का ४ रू ३ । अस्यै-
कालापो घटते पुनरपि त्रिहतो द्वयग्र इति तत्फलं च नी ३ रू २ ।
एतद्गुणहरमग्रयुतं च नी ६ रू ८ इदमस्य का ४ रू ३ समं कृत्वा
कालकमानं भिन्नं कुट्टकेनाभिन्नं जातम् पी ९ रू ८ अनेन काल-
कमुत्थाप्य जातो राशिः पी ३६ रू ३५ । अस्यालापद्वयं घटते ।
पुनरयं पञ्चभक्तस्त्र्यग्र इति तत्फलं च लो ५ रू ३ । एवं हरगुणम्-