बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 86, कुल 152 में से
संदर्भ में पढ़ेंअनेकवर्णसमीकरणम् । ८७
अयमेव पञ्चापहतश्चतुरग्र इति लब्धं नीलकं प्रकल्प्य तद्गुणित-
हरेण स्वाग्रयुतेन नी ५ रु ४ समीकरणेन जातं कालकमानम्
का = (नी ५ रु १ं) / ६ ।
एतत् कालकमानं भिन्नं लभ्यत इति कुट्टकेनाभिन्नं कालकोन्मा-
नम् = पी ५ रु ४ । अनेन पूर्वराशिम् का ६ रु ५ उत्थाप्य जातम् = पी ३०
रु २९ । पुनरयं चतुर्भक्तस्त्र्यग्र इति प्राग्वत् साम्ये कृते जातम्
पी = (लो ४ रु २ं६) / ३० = (लो २ रु १ं३) / १५
अत्रापि कुट्टकाल्लब्धं पीतकमानम् पी = ह २ रु १ । अनेन पूर्वराशौ
पी ३० रु २९ इत्थापिते जातो राशिः ह ६० रु ५९ । पुनरयं
त्रिभक्तो द्यग्र इति स्वत एव जातः । शून्यैकाद्युत्थापनाद्बहुधा ।
उदाहरणम् ।
स्युः पञ्चसप्तनवभिः क्षुण्णेषु हृतेषु केषु विंशत्या ।
रूपोत्तराणि शेषाण्यवाप्तयश्चापि शेषसमाः ॥ ७ ॥
अत्र शेषाणि या १, या १ रु १, या १ रु २ । एता एव लब्धयः ।
प्रथमो राशिः = का १ । अस्मात् पञ्चगुणिताद्राशेर्लब्धिगुणं हरमपास्य
जातं शेषम् का ५ या २०ं एतद्यावत्तावत्समं कृत्वा लब्धा यावत्ताव-
दुन्मितिः या = का ५ / २१
अथ द्वितीयो राशिः नी १ । अस्मात् सप्तगुणाद्रूपाधिकयावत्ता-
वद्गुणहरमपास्य जातम् नी ७ या २०ं रु २०ं । एतदस्य या १ रु १ समं
कृत्वा लब्धा यावत्तावदुन्मितिः या = (नी ७ रु २ं१) / २१
एवं तृतीयः = पी १ । अस्मान्नवगुणाल्लब्धि-या १ रु २ गुणहर-
मपास्य शेषम् पी ९ या २०ं रु ४०ं । इदमस्य या १ रु २ समं कृत्वा
लब्धा यावत्तावदुन्मितिः या = (पी ९ रु ४२ं) / २१ ।
आसां प्रथमद्वितीययोर्द्वितीयतृतीययोः साम्यकरणेन लब्धे काल
कनीलकयोन्मिती