बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 48, कुल 152 में से
संदर्भ में पढ़ें४६ बीजगणिते
न्यासः । या ६ रु ३०० ।
या ३० रु ३००̇ ।
समक्रियया लब्धं यावत्तावन्मानम् २५ । अनेनोत्थापिते जाते
धने ४५०, १५० ।
उदाहरणम्
माणिक्यामलमनीलमौक्तिकमितिः पञ्चाष्टसप्तक्रमा-
देकस्यान्यतरस्य सप्त नव षट् तद्रत्नसंख्या सखे ।
रूपाणां नवतिर्द्विषष्टिरनयोस्तौ तुल्यवित्तौ तथा
धीमन् प्रतिरत्नजानि सुमते मूल्यानि शीघ्रं वद ॥ ३ ॥
अत्राव्यक्तानां बहुत्वे कल्पितानि माणिक्यादीनां मूल्यानि
या(१) ३, या २, या १ । यदि एकस्य रत्नस्य इदं मूल्यं तदोद्दिष्टानां
किमिति लब्धानां यावत्तावतां योगे स्वस्वरूपयुते जातौ पक्षौ
या १५, या १६, या ७ रु ९० ।
या २१, या १८, या ६ रु ६२ ।
एते अनयोर्धने इति समशोधने कृते लब्धं यावत्तावन्मानम् ४ ।
अनेनोत्थापितानि माणिक्यादीनां मूल्यानि १२, ८, ४ । एवं समं
धनम् २५२ । अथ वा माणिक्यमानं यावत्तावन्नीलमुक्ताफलयोर्मूल्ये
व्यक्ते एव कल्पिते ५, ३ । अतः समीकरणेन लब्धं यावत्तावन्मानम्
१३ । अनेनोत्थापिते जातं समधनम् २१६। एवं कल्पनावशादनेकधा ।
उदाहरणम् ।
एको ब्रवीति मम देहि शतं धनेन
त्वत्तो भवामि हि सखे द्विगुणस्ततोऽन्यः ।
ब्रूते दशार्पयसि चेन्मम षड्गुणोऽहं
त्वत्तस्तयोर्वद धने मम किंप्रमाणे ॥ ४ ॥
( १ ) वि० टी०—"अव्यक्तानां द्व्यादिकानामपीह यावत्तावद्द्व्यादिनिघ्नं हतं
वा" इत्यतः ३या, २या, या एव मानं माणिक्यादीनां तदैव भवितुमर्हति यदि
मौक्तिकमूल्यान्नीलमूल्यं द्विगुणं माणिक्यमूल्यं त्रिगुणमन्यथैकवर्णसमीकृतिर्विधि-
रिति स्पष्टम् ।