बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
DevanagariHindipublished152 पृष्ठ
पृष्ठ 47, कुल 152 में से
संदर्भ में पढ़ेंपृष्ठ 47एकवर्णसमीकरणम् । ४५
एकवर्णसमीकरणम् । ४५
अत्राश्वमौल्यमज्ञातं तस्य मानं यावत्तावदेकं प्रकल्पितम् या १ ।
तत्र त्रैराशिकं यद्येकस्य यावत्तावन्मूल्यं तदा षण्णां किमिति फल-
मिच्छागुणं प्रमाणभक्तं लब्धं षण्णामश्वानां मूल्यम् । या ६ । अत्र
रूपशतत्रये प्रक्षिप्ते जातमाद्यस्य धनम् या ६ रु ३००। एवं दशानां मौ-
ल्यम् या १०। अत्र रूपशते ऋणंगते प्रक्षिप्ते जातं द्वितीयस्य धनम्
या १० रु १००।
एतौ समधनाविति पक्षौ स्वत एव समौ जातौ समशोधनार्थे
न्यासः—*या ६ रु ३०० ।
या १० रु १०० ।
अथ एकाव्यक्तं शोधयेदन्यपक्षादिति आद्यपक्षाद्व्यक्तेऽन्यपक्षा-
द्व्यक्ताच्छोधिते शेषम् या ४ । द्वितीयपक्षरूपेषु आद्यपक्षरूपेभ्यः शोधि-
तेषु शेषम् रु ४०० । अव्यक्तराशिशेषेण या ४ रूपशेषे रु ४०० उद्धृते
लब्धमेकस्य यावत्तावतो मानं व्यक्तम् १००। यद्येकाश्वस्येदं मौल्यं
तदा षण्णां किमिति त्रैराशिकेन लब्धं षण्णां मौल्यं ६०० रूपशतत्रय-
युतं ९०० जातमाद्यस्य धनम् । एवं द्वितीयस्यापि ९०० ।
अथ द्वितीयोदाहरणे प्रथमद्वितीययोस्ते एव धने
या ६ रु ३०० ।
या १० रु १०० ।
अत्राद्यपक्षधनाद्धेन द्वियुकेन तुल्यमन्यस्य धनमुदाहृतमत आ-
द्यधनार्धे द्वियुते अथवाऽन्यधने द्विहीने द्विगुणे कृते पक्षौ समौ भवत-
स्तथा कृते शोधनार्थे
न्यासः—या ३ रु १५२ । } अथवा { या ६ रु ३०० ।
या १० रु १०० । } { या २० रु २०४ ।
उभयोरपि शोधनार्थे कृते लब्धं यावत्तावन्मानम् ३६ । अनेन
पूर्ववदुत्थापने कृते जाते धने ५१६, २६० ।
अथ तृतीयोदाहरणे ते एव धने । अत्राद्यधनत्र्यंशः परधनमिति
परं त्रिगुणीकृत्य
- वि० टी०—संप्रति ६या + ३०० = १०या - १०० ∴ ४०० = ४या
∴ या = १०० एवं समीकरणानि सर्वत्र भिद्यंते ।