सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 393, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 393
  • ३८० -
    इत्येवमनिशं गोपाश्चित्ते भावयतो मम ।
    दृशोरायाति तत्साक्षात् सर्वं विहरशां मम ॥ ११ ॥
    तत्रापि कांचित्वरमां सहजानन्दिनीश्रियम् ।
    स्मारं स्मारं केवलं मे हृदयं न विदीर्यते ॥ १२ ॥
    १तत्कारणं प्रायशोमन्ये एकमेव सुनिश्चितम् ।
    अद्य श्वस्तत्र यास्यामीत्याशाबन्धेन रक्षणम् ॥ १३ ॥
    तावद्गोपालबाला वः समाश्वास्य समागतः ।
    पणं कृत्वा झटित्येव यास्यामि प्रमुदाटवीम् ॥ १४ ॥
    अधुना खलु जानीत सैष कालः समागतः ।
    सर्वशः कृतमत्रैत्यावतारार्थप्रयोजनम् ॥ १५ ॥
    तथा हि रक्षिता देवा यज्ञाश्चापि सुरक्षिताः ।
    त्रयी च रक्षिता नूनं पापेभ्यो धर्मरक्षणात् ॥ १६ ॥
    साधवो रक्षिता नूनं भक्ताः स्वानन्यरक्षणाः ।
    ब्राह्मणानां परो धर्मश्चालितश्चैव पालितः ॥ १७ ॥
    हंता देवद्रुहोऽशेषा भूमिर्निष्कण्टका कृता ।
    पित्रोर्भक्तिमतोश्चित्ते बहुजन्मावधिस्फुटः ॥ १८ ॥
    अभिलाषः सफलतां नीतः संगमताचिरम् ।
    अयोध्यास्थः परिकरः सकलश्च प्रमोदितः ॥ १९ ॥
    एतावदेव सकलमत्रागमनकारणम् ।
    जातप्रायं तु तत्सर्वमयोध्यास्थजनान् प्रति ॥ २० ॥
    अतः परं प्रयास्यामि प्रमोदवनमेवतत् ।
    असंशयं स सफलो भवत्सु मामकः पणः ॥ २१ ॥
    भवद्भिरपि दृष्टेयमोध्या नाम मे पुरी ।
    अनन्तकौतुकं दृष्टं तत्र यास्याम्यतः परम् ।
    धैर्यमालम्ब्य तिष्ठध्वं सत्यवाग् जनितोऽस्म्यहम् ॥ २२ ॥
    अव्यक्तां गतिमापन्नो गत्वा प्रमुदकानने ।
    भवद्भिः सह क्रीडिष्येऽव्यक्तां च गतिमागतैः ॥ २३ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे सर्वप्रबोधे
    सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
    ✤
    १. पादेऽस्मिन्नक्षराधिक्यमार्षः ।