सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 394, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 394
  • ३८१ -
    अष्टचत्वारिंशोऽध्यायः
    ब्रह्मोवाच
    एवं समाधाय मनः सतां प्रियः १श्रीमत्प्रमोदाटविवासिनां नृणाम्।
    शुश्राव दूरात्स्तुतिमातुरस्य खिंगस्य नाम्नाघट्ट जनस्य ॥ १ ॥
    ततो विसृज्य भक्तास्तान् प्रमोदवनवासिनः।
    करुणादग्धहृदयस्तमुद्धर्तुमधावत ॥ २॥
    स वै ऋजीषाख्य ऋषिस्तपस्वी भक्तापराधादन्त्यजत्वं प्रयातः।
    तत्रापि चान्धो विषयानुसेवया प्रमत्तचित्तैर्वितथं नीतकालः॥ ३॥
    अन्यां गतिमदृष्ट्वा स विना श्रीरामसंश्रयम्।
    प्रपन्नः शरणं तं वै प्रभुं कारुण्यसागरम् ॥ ४॥
    भुशुण्ड उवाच
    कोऽयं विप्र ऋजीषाख्यः कथं वै चान्त्यजोऽभवत्।
    कथं च शरणं यातो रामं करुणयाप्लुतम् ॥ ५ ॥
    ब्रह्मोवाच
    प्रमोदवनपार्श्वस्थ ऋजीषो नाम वै मुनिः।
    निन्दया व्रजभक्तानामन्तकत्वमुपेयिवान् ॥ ६॥
    ततो ब्रजसरःस्नानाद्विहाय शौकरं वपुः।
    अन्त्यजत्वमवाप्यैष स्तुतवान् राघवोत्तमम् ॥ ७॥
    नारदस्योपदेशेन ज्ञात्वैनं पुरुषं परम्।
    अपि नाम तपस्वी वा ज्ञानी वा सुकृती च वा ॥ ८॥
    अहंकारं यः कुरुते स प्राप्नोत्यधमां गतिम्।
    पूर्वं चेदुत्तमः कश्चित्संस्कारो यदि वर्तते ॥ ९ ॥
    तदा लभेत् पुनरपि ज्ञानं नो चेद्गतो हि सः।
    ततोऽस्य प्राग्भवं ज्ञानं संस्कारेण स्मृतिं गतम् ॥ १० ॥
    त्यक्त्वा यच्छौकरं कार्यं मनाग् यातः कृतार्थताम्।
    तस्मादेवं नरः कुर्याद्यथा संस्कारवान् भवेत् ॥ ११ ॥
    ऋजीषः स्खलितो योगाद्भुक्त्वा पशुमयीं गतिम्।
    अन्त्यजानां कुले भाग्यान्मानवी योनिमाप सः ॥ १२ ॥
    भुञ्जानो भूरिविषयान् कुटुम्बासक्तमानसः।
    उत्तरोत्तरभोगेऽपि वैतृष्ण्यं नाप दुर्मतिः ॥ १३ ॥
    १. नास्ति-बड़ौ०।