सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 392, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 392

इत्युक्तास्ते जनाः सर्वे पादावस्थाभिवाद्य च।
नमस्कृत्य च संतुष्टास्तद्विसृष्टा गृहान् ययुः॥ २२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे सर्वप्रबोध
षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥

सप्तचत्वारिंशोऽध्यायः

ब्रह्मोवाच
गतेषु तेषु लोकेषु प्रमोदवनवासिनः।
कांश्चिज्जनान् स्वपार्श्वस्थानब्रवीद्गोपरूपिणः॥ १॥

श्रीराम उवाच
हंहो गोपाः सर्वमहं स्मरामि यत् पुरा कृतम्।
यत् प्रमोदवने जातं दिव्यं मे केलिकौतुकम्॥ २॥
को विस्मरेत्तादृशमद्भुतं सुखं माङ्गल्यकायाः सदनेऽनुभूतम्।
तद्वात्सल्यं सुखितगवेन्द्रश्रीमन्माङ्गल्यनिरुपमसौख्यदापि॥ ३॥
कथं गोपाः प्राप्य गृहं दाशरथ्यं साम्राज्यलक्ष्मीमपि विस्मरेयम्।
त्रैलोक्यराज्यं यत्र निर्मञ्छनं स्यात् साम्राज्यलक्ष्मीर्नतदर्हापि स्यात्॥ ४॥
कथं गोपास्तादृशीं प्रेमवृद्धिं तदानन्दं वाप्यहं विस्मरेयम्।
तेते विलासा वनवीथीषु शश्वत् केलीकुञ्जाभ्यन्तरेषु प्रसंगाः॥ ५॥
तत्तत्पयोदधिहैयंगवीनैर्मिष्ठं स्वेष्टं प्राशनं काननेषु।
स्वैरं स्वैर ताश्चकेलीविलासान् भ्रामं भ्रामं तानि चौद्धत्यकानि।
गायं गायं ते च रसौघास्वादाः स्मारं स्मारं यानह मूर्छितोऽस्मि ॥ ६॥
अहो अत्यद्भुतं तत्तत्प्रमोदवनवीथिषु।
खेलनं वेल्लनं नृत्यं चलनं वलनं तथा॥ ७॥
तद्वै प्रमोदविपिनं ता रम्याः कुञ्जभूमयः।
गुंफनं गुञ्जाहाराणां सा पुष्पाभरणक्रिया॥ ८॥
संगे गोपालबालानां तत्तत्क्रीडनमद्भुतम्।
क्रीडने च रसोल्लासे मधुरं वेणुवादनम्॥ ९॥
नर्तनं तन्मयूराणां मदङ्गमुदितात्मनाम्।
प्रमोदवटमूले तद्गानं वापि कलैः स्वरैः॥ १०॥