सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 219, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 219
  • २०५ -
    षट्षष्टितमोऽध्यायः

श्रीशिव उवाच
अस्याः साम्राज्यपदवी प्रमुद्ने प्रतिष्ठिता ।
तत्रस्था कालमायादीनाज्ञापयति राजवत् ॥ १ ॥
अस्याः कटाक्षमात्रेण कोटिब्रह्माण्डनिर्मितिः ।
कोटयश्च विरचीनां विष्णूनां चैव कोटयः ॥ २ ॥
कोटयश्चैव रुद्राणां शक्राणा चैव कोटयः ।
उत्पद्यन्ते विकुर्वन्ति विलीयन्ते ततस्तथा ॥ ३ ॥
एकं सृजति ब्रह्माण्डमेकं स्थापयते तथा ।
एकं संहरेत चैषा कटाक्षेपमात्रतः ॥ ४ ॥
जानन्ति काल इत्येनां केचिद्वेदार्थकोविदाः ।
केचित्कर्मेति जानन्ति स्वभावमिति चापरे ॥ ५ ॥
केचित्पुरुष इत्येनां जगुरन्येऽक्षरात्मिकाम् ।
केचित्त्तत्वात्मिकामेनां जगुर्ब्रह्मेति चापरे ॥ ६ ॥
केचित्पूर्णं परं ब्रह्म पुरुषोत्तमशब्दितम्