सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 220, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 220
  • २०६ -
    श्रीशिव उवाच
    तदभिन्नस्वरूपेय सत्यमेव न सशयः ।
    तदप्येषा क्वचित्स्वेच्छामात्रा तं चापिमोहयेत् ॥ १३ ॥
    प्रवक्ष्याम्यत्र ते दिव्यमाख्यानं गोपभामिनी ।
    अवतारकथारूपं सहजाया महाद्भुतम् ॥ १४ ॥
    आसीन्निमिकुले राजा जनको नाम धार्मिकः ।
    सत्यसंधो दयानिष्ठो ब्रह्मज्ञो योगवित्तमः ॥ १५ ॥
    सर्वानुकूलधिषणः सर्वस्य कमनीयधीः ।
    विक्रमी शूरहृदयो याजको वेदवित्तमः ॥ १६ ॥
    पूर्वोत्तरार्थकुशलः सिद्धान्तयज्ञो महामतिः ।
    विवेचकः कृतश्रद्धो जितेन्द्रिय उदारधीः ॥ १७ ॥
    दानकृच्छशास्त्र निर्णेता निर्विकल्पो महामनाः ।
    लोकोपास्तिपरः क्षान्तो विजयी तत्त्वदर्शनः ॥ १८ ॥
    आस्तिकस्त्यागशीलश्च लक्ष्मीवान् दिव्यलक्षणः ।
    शस्त्रास्त्रविद्यानिपुणः सर्वधर्मविशारदः ॥ १९ ॥
    देवतातिथिनित्यार्चातत्परो विदितार्थकः ।
    प्रमाणज्ञः सदा वीरः परदुःखनिवारकः ॥ २० ॥
    रामभक्तिपरो राजा प्रजारञ्जनतत्परः ।
    अनिन्दकः सुवदनः प्रसन्नः परिणामवित् ॥ २१ ॥
    ईतिहर्ता वीतशोकः कालधर्मप्रचारणः ।
    विचारपरमो वेत्ता अप्रमत्तः प्रतापवान् ॥ २२ ॥
    सर्वभूतदयाशीलो हयमेधविशारदः ।
    ईन्द्रासनस्याधिष्ठाता द्यावाभूम्यैकमण्डनः ॥ २३ ॥
    कुलभारोद्वहनकृद्धरित्रीभरणक्षमः ।
    विप्रार्चनसदाचारो महालक्ष्मीप्रसादनः ॥ २४ ॥
    आत्मज्ञो वीतरागश्च ग्राम्यधर्मपराङ्मुखः ।
    सत्याचारपरो नित्यं प्रत्यक्षस्वात्मदर्शनः ॥ २५ ॥
    महायोगीन्द्रसंसर्गी योगचर्चापरायणः ।
    महोपनिषदर्थज्ञः सर्वत्र समदर्शनः ॥ २६ ॥
    तस्य पालयतः पृथ्वीं मैथिलेन्द्रस्य धीमतः ।
    नाधार्मिकोऽभूज्जगति नाकृतज्ञो न नास्तिकः ॥ २७ ॥