भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 218, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 218
- २०४ -
चतुर्दलं स्थानमस्य मूलाधारे प्रकीर्तितम् ।
गणराजस्वरूपेण स्वयं तत्र प्रतिष्ठितः ॥ २४ ॥
लेखनीपुस्तकधरः सरस्वत्याभिमर्षितः ।
स्वाधिष्ठानं षट्दलं च तत्र ब्रह्मा प्रतिष्ठितः ॥ २५ ॥
विद्याकमण्डलुधरो निगमत्रय भूषितः ।
स्वशक्त्या वेदरूपिण्या गायत्र्या चाभिमर्षितः ॥ २६ ॥
मणिपूरं दशदलं तत्र विष्णुः श्रिया युतः ।
शङ्खचक्रगदापद्मभूषितः शुद्धसत्त्वभाक् ॥ २७ ॥
अनाहतं रविदलं चक्रं सम्परिकीर्तितम् ।
तत्र रुद्रः स्वशक्त्या च पार्वत्या भाति भूषितः ॥ २८ ॥
विशुद्धं षोडशदलं पुरुषोऽत्र प्रतिष्ठितः ।
प्राणेश्या जीवशक्त्या स नित्यमेवाभिमर्षितः ॥ २९ ॥
सहस्राननदृक्कर्णः सहस्रपदबाहुकः ।
जागर्ति सर्वजीवानामधिष्ठाता स्वयं प्रभुः ॥ ३० ॥
आज्ञाचक्रं च द्विदलं परमात्मात्र संस्थितः ।
चिच्छक्त्यालिङ्गितः साक्षाच्छब्दार्था नामगोचरः ॥ ३१ ॥
तदूर्ध्वं तत्परं स्थानं सहस्रदलकाननम् ।
तत्कर्णिकास्थितश्चन्द्रस्तत्र हंसः प्रतिष्ठितः ॥ ३२ ॥
तत्र ब्रह्म परं दिव्यं क्षराक्षर पदातिगम् ।
निरीहं निर्गुणं साक्षान्नित्याकारं सुरञ्जनम् ॥ ३३ ॥
वेद्यं वेदातिगं चापि सर्वोपादानकारणम् ।
यत्प्राप्य नातिवर्तेत तन्मयो भवति ध्रुवम् ॥ ३४ ॥
बाह्यमाभ्यन्तरं चैवं मया तुभ्यं प्रकीर्तितम् ।
सहजानन्दिनीशक्त्या सर्वमेतद्विजृम्भितम् ॥ ३५ ॥
ब्रह्मापि तन्मयं विद्धि यत्पूर्णममृताव्ययम् ।
रामेति यस्य वै नाम तद्रूपं वापि यन्मयम् ॥ ३६ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
श्रीशुकजनकसंवादे सहजोपाख्याने पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥