सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 217, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 217
  • २०३ -

षष्टिदण्डप्रमाणेन पार्थिवादीन् विभावयेत् ।
उषः पार्थिवकं ज्ञेयं नाभसं चारुणोदये ॥ ८ ॥
मन्दं मन्दतरं चैव तथा मन्दतमं भवेत् ।
अतिमन्दं मन्दमन्दं घटिकाः पार्थिवाश्रयाः ॥ ९ ॥
धौतं धौततरं चैव तथा धौततमं भवेत् ।
अतिधौतं धौतधौतं घटिका आप्यसंश्रयाः ॥ १० ॥
ज्वलितं प्रज्वलितकं सुप्रज्वलितकं तथा ।
अतिप्रज्वलितं चैव ज्वलिताज्ज्वलितं तथा ॥ ११ ॥
पञ्चपञ्च इमा ज्ञेयास्तैजसात्मकसंश्रयाः ।
वेगं वेगतरं चैव तथा वेगतमं तथा ॥ १२ ॥
अतिवेगं महावेगं घटिका वायवाश्रयाः ।
आकाशं चावकाशं च महाकाशं विकाशकम् ॥ १३ ॥
अत्याकाशमिति ज्ञेया घटिका नाभसाश्रयाः ।
संकल्पं च विकल्पं च निवृत्तं च प्रवर्तकम् ॥ १४ ॥
अतिवृत्तकं च ज्ञेया घटिका मानसाश्रयाः ।
षष्टिदण्डात्मकः काल इति तुभ्यं प्रकीर्तितः ॥ १५ ॥
एतन्मूलमिदं विश्वं बाह्याभ्यन्तरभेदतः ।
बाह्यं सर्वमिदं विश्वं ब्रह्माण्डात्मकमीरितम् ॥ १६ ॥
आभ्यन्तरं तदेवेदं ब्रह्माण्डरचनात्मकम् ।
इडा वामवहा नाडी पिंगला दक्षिणाश्रया ॥ १७ ॥
तयोर्मध्यगता सूक्ष्मा सुषुम्नेति प्रकीर्तिता ।
सूर्यचन्द्राग्नयस्तासु प्रतिष्ठिततमा मताः ॥ १८ ॥
स्थूलसूक्ष्मप्रभेदेन पञ्चभूतानि चैव हि ।
तेषां मात्रा इन्द्रियाणि देवा इन्द्रादयस्तथा ॥ १९ ॥
दिशोऽन्तरिक्षमरुतः समुद्रा गिरयस्तथा ।
नद्यो भूतगणाश्चैव स्वस्वस्थानसमाश्रयाः ॥ २० ॥
तत्रैव संश्रिता लोकाः सप्ताधः सप्त चोपरि ।
मूलाधारं समारभ्य षट् चक्रास्तत्र संश्रिताः ॥ २१ ॥
मूलाधारे स्थितः श्रीमान् शेषो नारायणः स्वयम् ।
स ब्रह्मा स शिवः सेंद्रः सोऽक्षरः परमः स्वराट् ॥ २२ ॥
गणेशो वाक्पतिश्चैव सर्वदेवमयात्मकः ।
तस्यैव शक्तयः सर्वाः प्रसूता देवतागणाः ॥ २३ ॥