सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 216, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 216
  • २०२ -
    आब्रह्मभुवनात्सर्वे देवाश्च शरणं गताः।
    तेऽपि संतारिताः काले प्रादुर्भूय स्वविक्रमैः ॥ ३० ॥
    इदं स्तोत्रं वसिष्ठाद्यैर्मुनिभिः कीर्तितं तु यत्।
    यः पठेत् सततं प्रातस्तस्य श्रीवरदा स्वयम् ॥ ३१ ॥
    यस्त्रिसंध्यं पठेत् स्तोत्रं तस्य श्रीसहजेश्वरी।
    सद्यः प्रसन्ना कुरुते निश्चलां धनसम्पदम् ॥ ३२ ॥
    सद्यस्तारपते मृत्योर्ददाति प्रेमसम्पदम्।
    श्रीरामचरणाम्भोजे करोति च सुनिर्वृतिम् ॥ ३३ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    श्रीशुकजनकसंवादे सहजोपाख्याने चतुष्षष्टितमोऽध्यायः ॥ ६४ ॥
    पञ्चषष्टितमोऽध्यायः
    श्रीशिव उवाच
    अस्याः श्रीसहजैशान्यस्त्वत्पुत्र्या गोपभामिनि।
    महिमानमिमं वक्तुं क्षमो देवि कियानहम् ॥ १ ॥
    इयं कालस्वरूपेण सततं पर्युपस्थिता।
    ग्रहनक्षत्रतारादीन् सततं चालयत्युत ॥ २ ॥
    यावन्तः कालावयवास्तेऽस्य विग्रहसंश्रयाः।
    शैशूमारमिदं चक्रं कालमूर्तेः शरीरकम् ॥ ३ ॥
    यत्र नक्षत्रताराणां मण्डलं पर्यवस्थितम्।
    उन्मज्जन्ति निमज्जन्ति घटीयन्त्रवदी दृशाः ॥ ४ ॥
    कालस्य सूक्ष्मावयवा व्यापकाः सर्वभूतगाः।
    पार्थिवा अम्मयाश्चैव तैजसा वायवास्तथा ॥ ५ ॥
    नाभसा मानसाश्चैव व्यापकाः कालविग्रहाः।
    स्थिर स्थिरचरं चैव चरं चैवाचरं तथा ॥ ६ ॥
    स्थिरं चैव चरं चैव क्रमशः परिकीर्तिताः।
    शुक्लपक्षप्रतिपदि पूर्वं सूर्योदयात्किल ॥ ७ ॥