सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 215, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 215
  • २०९ -
    क्षयेऽपि विश्वस्य चराचरस्य त्वदीयमानन्दमयं पुराणम् ।
    जागर्ति तद्धाम प्रमुद्गनाख्यं यत्र प्रकृत्या नु गुणा भवन्ति ॥ १५ ॥
    त एव भाग्यैर्विधुरा मनुष्याः श्रीसद्गुरूपास्तिपराङ्मुखाश्च ।
    ये मातरद्धा निगमैनिरूढां न वै तवाङ्घ्रयोः पदवीं श्रयन्ते ॥ १६ ॥
    सम्प्राप्य च त्वच्चरणारविन्दं परामृतस्त्राविमहामरन्दम् ।
    न कर्मणां ज्ञानपथस्य वापि पश्यन्ति नो वान्यसुरौघवक्त्रान् ॥ १७ ॥
    ये ब्रह्मभूताः सहसा प्रसन्ना विशोकवाञ्छाः समसर्वभूताः ।
    सम्प्राप्य ते त्वच्चरणाम्बुजस्थां भक्तिं सुधां वीततृषो भवन्ति ॥ १८ ॥
    तावन्न ते धामनि मोदमाना माद्यन्ति तैस्तैरमृताधिभोगैः ।
    यावन्न ते पादसरोजयुग्मे नैसर्गिकी जायत एव भक्तिः ॥ १९ ॥
    ये वैष्णव भूषणतमाः पदं तन्महामहाभागवतप्रधानाः ।
    ते पूर्वमद्धा भवतीं भजन्ते परां रमां वै श्रियमादिलक्ष्मीम् ॥ २० ॥
    अस्मिन् महाब्रह्मपुरे प्रकाम यत्पुण्डरीकं दहरं सुवेश्म ।
    तस्मिंश्चिदात्मा दहराभिधोऽन्तराकाश एतत्तव धाम नित्यम् ॥ २१ ॥
    यदस्ति किंचिदिह यच्च नास्ति तत्सर्वमत्रैव परं प्रतिष्ठितम् ।
    सर्वे च कामा विषयाश्च सर्वे परामृतानन्दमया विभान्ति ॥ २२ ॥
    तत्त्वं तदन्विष्य तव स्वरूप जिज्ञासमाना मुनयो विमानाः ।
    भवन्ति मुक्ताः कतिचित्प्रपद्य नातः परं ते पुनरावृतन्ते¹ ॥ २३ ॥
    सम्प्रत्यस्मान् कालवेगेन मूढान् नष्टप्रायान् नष्टहृद्बुद्धिवृत्तीन् ।
    त्वं त्रायस्व त्राणकर्तेह नान्यो यस्मादेषा त्वत्समुत्थैव भीतिः ॥ २४ ॥
    इति तेषां प्रपन्नानां मज्जतां सागरोदके ।
    सद्यः समुद्धृतिं कर्तुं दिव्यां नावं ससर्ज सा ॥ २५ ॥
    तस्यामारोप्य नौकायां महापद्मदलीकृतौ ।
    स्वयं च वाहिका भूत्वा प्रलयाब्धेरतारयत् ॥ २६ ॥
    नक्षत्रग्रहताराद्यैः स्तूयमाना महर्षिभिः ।
    पोतवाहस्वरूपेण स्वयं च शुशुभेतराम् ॥ २७ ॥
    इत्थमेषा सुविक्रान्ता स्वतन्त्रा च महोजिता ।
    महाप्रलयपाथोधेर्मुनिर्वर्यानतारयत् ॥ २८ ॥
    तदस्याश्चरितं दृष्ट्वा महर्लोकस्थिताः सुराः ।
    अवाकिरन् कल्पवृक्षप्रसूनैः सहजेश्वरीम् ॥ २९ ॥
    १. पुनरावर्तन्ते-इत्यर्थः ।