भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 214, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 214
- २०० -
चतुःषष्टितमोऽध्यायः
श्रीशिव उवाच
कदाचिदेषा सहजा स्वयमात्मरति गता ।
लयं कृत्वा प्रपञ्चस्य भोक्तुकामैव केवलम् ॥ १ ॥
निःशेषयित्वा निखिलं द्वन्द्वातीता बभूव ह ।
तदा भक्तान् स्वयं भुक्तान् प्रवेशितवती तनौ ॥ २ ॥
ततः पूर्वमनावृष्टिर्जाताद्वादशवार्षिकी ।
अतपश्च रविश्चण्डो मण्डलद्वादशात्मकः ॥ ३ ॥
तेन शुष्कं जगत्सर्वं सहस्थावरजंगमम् ।
कालजीमूतसंघातस्ततः प्रावर्षतोच्चकैः ॥ ४ ॥
तत एकार्णवे जाते वसिष्ठाद्या महर्षयः ।
मज्जमाना महात्रासादेनां तुष्टुवुरञ्जसा ॥ ५ ॥
ऋषय ऊचुः
नमो ब्रह्मस्वरूपिण्यै स्वानन्दघनमूर्तये ।
व्यक्ताव्यक्तातिवर्तिन्यै स्वप्रकाशचिदात्मने ॥ ६ ॥
गिरां देव्यै च नित्यायै शब्दार्थाखिलमूर्तये ।
सप्रपञ्चाप्रपञ्चायै स्वतन्त्रायै नमो नमः ॥ ७ ॥
महाकालकलावत्यै परिणामैकहेतवे ।
नमस्ते स्थूलसूक्ष्मादिजगद्द्विधारणात्मने ॥ ८ ॥
गुणातीते गुणाधारे जीवशक्त्यङ्कुरात्मिके ।
वाचातीते परे मातः सहजे पाहि सेवकान् ॥ ९ ॥
यर्ह्येवेदं जगत्कर्तुमिच्छा प्रादुरभूतसती ।
तर्ह्येव तत्क्षणादेतद् दृश्यजातमदृश्यत ॥ १० ॥
सच्चिदानन्दरूपा त्वं व्यापिका परमात्मिका ।
अंशानंशा विशिष्टांशा स्वरूपगुणरूपिका ॥ ११ ॥
त्वमुपादानमेतस्य निमित्तं त्वं परा चितिः ।
एकधानेकधा चापि विद्वद्भिः परिगीयसे ॥ १२ ॥
त्वं शक्तिस्त्वं शक्तिमती त्वं धर्मश्चासि धर्मिणी ।
सर्वाभिन्नस्वरूपत्वाद्देवि ब्रह्मेति गीयसे ॥ १३ ॥
ये त्वां समाश्रितामर्त्या मृत्युत्रासवशीकृताः ।
तेषाममृतरूपासि किमन्यत्कथयामहे ॥ १४ ॥