सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 213, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 213

– १९९ –
अधस्तात्कल्पवृक्षस्य श्रीरत्नवेदिकोपरि ।
रत्नसिंहासनासीनां सेवितामप्सरोगणैः ॥ ४१ ॥
घृताची मेनका रम्भा उर्वशी पुंजिकस्थली ।
तिलोत्तमा मजुघोषा सुकेसी मदनोत्सवा ॥ ४२ ॥
इत्याद्याभिः सुवर्गाभिर्दिव्याभिरुपवीणिताम् ।
कयाचिद्धृतरत्नौघवर्णनच्छत्रमण्डलाम् ॥ ४३ ॥
काभ्यांचिच्चारुचन्द्रांशुचामरद्वन्द्ववीजिताम् ।
काभ्यांचित्स्फटिके पीठे संवाहितपदाम्बुजाम् ॥ ४४ ॥
रत्नभूषणहस्ताभिरन्याभिरुपसेविताम् ।
ताम्बूलवीटिकारत्नकरंजयतुपाणिभिः ॥ ४५ ॥
रामाभिरभिरामाभिः समंतात्पर्युपासिताम् ।
पुष्पहारसनाथाभिस्त्याभिः समुपासिताम् ॥ ४६ ॥
मन्दोद्योतितस्मतज्योत्स्नाविधूनिततमोगुणाम् ।
मूर्तिमद्भिश्च निधिभिः समंतादुपसेविताम् ॥ ४७ ॥
सरस्वत्या यमुनया गङ्गाया च निषेविताम् ।
पाञ्चजन्येन शङ्खेन चक्रेण¹ सुदर्शनेन च ॥ ४८ ॥
कौमोदक्या च गदया पद्मेन भुवनात्मना ।
शार्ङ्गेण चैव धनुषा दिव्यैरन्यैस्तथाऽऽयुधैः ॥ ४९ ॥
अप्राकृतैस्तथा सर्वैः पदार्थैरुपसेविताम् ।
कालेन मायया चापि विद्यापाविद्यया तथा ॥ ५० ॥
गुणैः सत्वादिभिश्चैव तत्त्वैर्देवतविग्रहैः ।
ईषद्दृगंशसंपातप्रसादवर