सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 179, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 179
  • १६५ -
    तस्य पत्नी सदादीक्षा तदाहितमनोगतिः ।
    कौसल्या श्रीमती ज्येष्ठा केकयी तदनन्तरम् ॥ १० ॥
    सुमित्रा च ततः पश्चात्तिम्रोऽप्यस्यातिसौख्यदाः ।
    तस्य पुत्रः स्वयं रामः श्रीमांश्चन्द्राननस्तु यः१ ॥ ११ ॥
    एष एव स्वलीलाभिमर्यादापुरुषोत्तमः ।
    अनुकूलः सदा सीतास्वाधीनपतिकारतः ॥ १२ ॥
    अनन्यप्रेयसीकान्तः श्रुतिधर्मपथेश्वरः ।
    प्रमोदवनवासी तु परमः पुरुषोत्तमः ॥ १३ ॥
    विशुद्धप्रेमभक्त्यैकप्राप्यरूपो महाप्रभुः ।
    सर्वोत्तमः सदा सेव्यो हृदि भावैकवेदिभिः ॥ १४ ॥
    यस्य लीला रसमयी सर्वात्माभावभूषिता ।
    ब्रह्मधर्मस्य मर्यादा सर्वा यत्र विवर्जिताः ॥ १५ ॥
    निःसाधनपथस्थानां पराविर्भावकारणम् ।
    प्रमोदवनमात्रैकविश्रान्तसुखवारिधिः ॥ १६ ॥
    प्रमोदवनसामग्री प्रेमभक्तिमयी सदा ।
    सहजानन्दिनी तत्र मोदिनी चापि विश्रुता ॥ १७ ॥
    आह्लादिनी परा शक्तिः सर्वलीलाधिदेवता ।
    अनेककोटिलक्ष्मीनामंशिती परदेवता ॥ १८ ॥
    परलक्ष्मीः परब्रह्मरूपिणी परमेश्वरी ।
    स एतया सुसम्पन्नः प्रमोदवनचन्द्रमाः ॥ १९ ॥
    क्रीडति क्रीडनैर्दिव्यैः परमानन्दसिन्धुभिः ।
    वासन्तैः शारदैश्चैव तथान्यै ऋतुरञ्जितैः ॥ २० ॥
    सुखितस्य गृहे साक्षात्कल्याणगुणमण्डितः ।
    माङ्गल्यायाः सुतः श्रीमान् ज्ञानिनामप्यगोचरः ।
    कुतस्तरां कर्मजुषां भक्त्यैकसुलभः प्रभुः ॥ २१ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे श्रीशुकजनकसंवादे त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥
    ✤
    १. खण्डितं - बड़ौ० ।