भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 162, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 162
- १४८ -
सम्यग्ज्ञातं भगवति त्वयास्मिन् भूरिमण्डले ।
जायमाने महाशब्दे वादत्रवादगोचरे ॥ १५ ॥
रोषणस्यात्रिपुत्रस्य स्खालित्यं सामगानगम् ।
इति श्रुत्वा सरस्वत्या वाचं श्रीसरयूः पुनः ॥ १६ ॥
हसन्ती तामन्वहसन्निरीक्ष्य वदनं मुनेः१ ।
ततो मुनिर्ददौ शापं मर्त्यलोकगतिं प्रति ।
गर्भवासमनुप्राप्य फलं हास्यस्य वेत्स्यसि ॥ १७ ॥
विधिरुवाच
मा ग्लासीः सरयूदेवि कच्चित्त्वं विश्वमङ्गला ।
त्वां निरीक्ष्य प्रजायन्ते विशोकाः सकला जनाः ॥ १८ ॥
शपोऽयं ते महादेवि केवलं लोकमङ्गलः ।
मर्त्यलोकेऽपि जाता त्वं मनुष्यान् सुखयिष्यसि ॥ १९ ॥
गङ्गादि ; प्यतीर्थेभ्यः सहस्रगुणमुत्तमा ।
भविष्यसि त्वं सरयू सत्यं सत्यं न संशयः ॥ २० ॥
यः कुर्यात्पुण्यतीर्थेषु यात्रां पृथ्वीप्रदक्षिणाम् ।
त्वयि यावन्न च स्नाति तावत्तस्य न तत्फलम् ॥ २१ ॥
इत्यादरस्ते विपुलॊ मर्त्यलोके भविष्यति ।
श्रीरामनगरीनाम्ना यायोध्थेति प्रकीर्तिता ॥ २२ ॥
साक्षाद्वैकुण्ठनगरी तस्यां स्थास्यति निश्चला ।
ब्रह्महापि दुराचारः सुरापयीति परार्थहृत् ॥ २३ ॥
गुरुतल्पगमोऽपि त्वय्येकस्नानाद्विशुद्ध्यति ।
न त्वत्समं मर्त्यलोके तीर्थमन्यद्भविष्यति ॥ २४ ॥
गर्भवासादपि परं मा ग्लासीस्त्वं सुदेवते ।
वसिष्ठस्य शुभा भार्या नाम्ना या देव्यरुन्धती ॥ २५ ॥
योगैकतानहृदया लक्ष्मीतुल्याप्युमासमा ।
तस्या गर्भे जनिं लब्छबा विश्वमानन्दयिष्यसि ॥ २६ ॥
ततः प्रमोदविपिने रामलीलां मनोहराम् ।
निरीक्ष्य निजनेत्राभ्यां परा प्रीतिमवाप्स्यसि ॥ २७ ॥
ततः परं रामचन्द्रे लोकानन्दसुधानिधौ ।
[L31